________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३८
वेदान्तदीपे
धर्म्ययुक्तदोषगन्धप्रसङ्गः । यत्तु निमित्तोपादानयोरैक्यमाकाशादेनिरवयवद्रव्यस्य कार्य त्वं चानुपलब्धम् अशक्यप्रतिपादनमित्युक्तम् ; तदप्यविरुद्धमिति ४ प्रकृतिश्च प्रतिज्ञादृष्टान्तनुपरोधात्" "न वियदश्रुतेः" इत्यत्र प्रतिपादयिष्यते । अतः प्रमाणान्तरागोचरत्वेन शास्त्रैकविषयत्वात् ६ "यतो वा इमानि भूतानि " इति वाक्यमुक्तलक्षणं ब्रह्म प्रतिपादयतीति सिद्धम् ||
इति श्रीशारीरकमीमांसाभाष्ये शास्त्रयोनित्वाधिकरणम् ॥ ३ ॥
( वेदान्तसारे शास्त्रयोनित्वाधिकरणम् || ३ || ) →
शास्त्रयोनित्वात् । १।१॥३॥
एवं चिदचिद्वस्तुशरीरतया तद्विशिष्टस्य ब्रह्मण एव जगदुपादानत्वं निमित्तत्वञ्च नानुमानगम्यमिति शास्त्रैकप्रमाणकत्वात्तस्य। *" यतो वा इमानि भूतानि” इत्यादिवाक्यम्, निखिलजगदेक कारणं ९ ब्रह्मैव बोधयत्येवेति सिद्धम् ॥ इति वेदान्तसारे शास्त्रयोनित्वाधिकरणम् ॥ ३॥
- ( वेदान्तदीपे शास्त्रयोनित्वाधिकरणम् ॥ ३ ॥ )-~~
शास्त्रयोनित्वात् । १।१॥३॥
*" यतो वा इमानि " इत्यादिवाक्यमेव विषयः । तत्किं जगत्कारणे ब्रह्मणि प्रमाणम् ? उत नेति संशयः । नैतत्प्रमाणमिति पूर्वः पक्षः । अनुमानसिद्धब्रह्मविषयत्वात् । प्रमाणान्तराविषये हि शास्त्रं प्रमाणम् । जगतस्सावयवत्वेन कार्यत्वात् कार्यस्य स्वोपादानोपकरणसम्प्रदानप्रयोजनाद्यभिज्ञकर्तृकत्वात्, जगन्निर्माणकार्यचतुरः कर्मपरवशपरिमितशक्त्यादिक्षेत्रज्ञविलक्षणस्सर्वज्ञस्स
,
१. निमित्तोपादानैक्यं. पा ॥
२. त्वमनु. पा ॥
३. तदविरुद्ध. पा।। ४. शारी. १ - अ. ४- पा. २३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[अ. १.
५. शारी. २ - अ. ३ - पा.१ ॥ *६. तै. भृगु. १ - अनु ।। ७. इत्यादिवाक्य. पा।। ८. शास्त्रैकवेद्यम्.पा ।।
९. ब्रह्म अवगमयत्येवेति पा ॥