________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
शास्त्रयोनित्वाधिकरणम्.
१३७
कर्मसंबन्धोऽवर्जनीयः। अतः क्षेत्रज्ञा एव कर्तारः न तद्विलक्षणः कश्चि
दनुमानात्सिध्यति ||
२भवन्ति च प्रयोगाः – तनुभुवनादि क्षेत्रज्ञकर्तृकम्, कार्यत्वात्, घटवत् । ईश्वरः कर्ता न भवति, प्रयोजनशून्यत्वात्, मुक्तात्मवत् । ईश्वरः कर्ता न भवति, अशरीरत्वात्तद्वदेव । न च क्षेत्रज्ञानां स्वशरीराधिष्ठाने व्यभिचारः, तत्राप्यनादेस्सूक्ष्मशरीरस्य सद्भावात् । विमतिविषयः कालो न लोकशून्यः, कालत्वाद्वर्तमानकालवत् इति ॥
अपिच – कमीश्वरस्सशरीरोऽशरीरो वा कार्य करोति । न तावदशरीरः, अशरीरस्य कर्तृत्वानुपलब्धेः । मानसान्यपि कार्याणि सशरीरस्यैव भवन्ति, मनसो नित्यत्वेऽप्यशरीरेषु मुक्तेषु तत्कार्यादर्शनात् । नापि सशरीरः, विकल्पासहत्वात् । तच्छरीरं किं नित्यम् ? उतानित्यम् । न तावन्नित्यम्, सावयवस्य तस्य नित्यत्वे जगतोऽपि नित्यत्वाविरोधादीश्वरासिद्धेः । नाप्यनित्यम्, तद्व्यतिरिक्तस्य तच्छरीरहेतोस्तदानीमभावात् । स्वयमेव हेतुरिति चेत् न, अशरीरस्य तदयोगात् । अन्येन शरीरेण सशरीर इति चेत् न, अनवस्थानात् ॥
स किं सव्यापारो निर्व्यापारो वा । अशरीरत्वादेव न सव्यापारः । नापि निर्व्यापारः कार्य करोति, मुक्तात्मवत् । कार्य जगदिच्छामात्रव्यापारकर्तृकमित्युच्यमाने पक्षस्यामसिद्धविशेषणत्वम् ; दृष्टान्तस्य च साध्यहीनता । अतो दर्शनानुगुण्येन ४ ईश्वरानुमानं दर्शनानुगुण्यपराहतमिति शास्त्रैकप्रमाणकः परब्रह्मभूतस्सर्वेश्वरः पुरुषोत्तमः ॥
For Private And Personal Use Only
-
शास्त्रन्तु सकलेत रममाणपरिदृष्टसमस्तवस्तुविसजातीयं सार्वइयसत्यसङ्कल्पत्वादिमिश्रानवाधिकातिशयापरिमितोदारगुणसागरं निखिलहेयमत्यनीकस्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसितवस्तुसा१. कर्मसंबन्धोऽवश्याश्रयणीयः पा || ३. घटादिवत् पा ॥
२. भवन्तिचात्र पा ॥
४. ईश्वरसाधनं. पा ॥
18