________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाष्ये
[अ. १. कार्येषु कालभेदकर्तृभेददर्शनेन कर्तृकालैक्यनियमादर्शनात् । न च क्षेत्रज्ञानां विचित्रजगन्निर्माणाशत्तया कार्यत्वबलेन लदतिरिक्तकल्पनायाम् अनेककल्पनानुपपत्तेश्चैकः कर्ता भवितुमर्हतीति क्षेत्रज्ञानामेवोपचितपुण्यविशेषाणां शक्तिवैचित्र्यदर्शनेन तेषामेवातिशयितादृष्टसंभावनया च तत्तद्विलक्षणकार्यहेतुत्वसंभवात् । तदतिरिक्तात्यन्तादृष्टपुरुषकल्पनानुपपत्तेः। न च १युगपत्सर्वोत्पत्तिस्सर्वोच्छित्तिश्च प्रमाणपदवीमधिरोहतः, अदर्शनात् , क्रमेणैवोत्पत्तिविनाशदर्शनाच । कार्यत्वेन सर्वोत्पत्तिविनाशयोः कल्प्यमानयोदर्शनानुगुण्येन कल्पनायां विरोधाभावाच । अतो बुद्धिमदेककतकत्वे साध्ये कार्यत्वस्यानैकान्त्यम् ; पक्षस्याप्रसिद्धविशेषणत्वम् ; साध्यविकलता च दृष्टान्तस्य सर्वनिर्माणचतुरस्य एकस्याप्रसिद्धेः । बुद्धिमत्कतकत्वमाने साध्ये सिद्धसाधनता ।।
सार्वज्यसर्वशक्तियुक्तस्य कस्यचिदेकस्य साधकमिदं कार्यत्वं किं युगपदुत्पद्यमानसर्ववस्तुगतम् ? उत क्रमेणोत्पद्यमानसववस्तुगतम् ? युगपदुत्पद्यमानसर्ववस्तुगतत्वे कार्यत्वस्यासिद्धता । क्रमेणोत्पद्यमानसर्ववस्तुगतत्वे अनेककर्तृकत्वसाधनाद्विरुद्धता । अत्राप्येककर्तृकत्वसाधने प्रत्यक्षानुमानविरोधश्शास्त्रविरोधश्च ; 'कुम्भकारो जायते रथकारो जायते' इत्यादिश्रवणात् ॥
___ अपिच-सर्वेषां कार्याणां शरीरादीनां च सत्त्वादिगुणकार्यरूपसुखाद्यन्वयदर्शनेन सत्त्वादिमूलत्वमवश्याश्रयणीयम् । कार्यवैचित्र्यहेतुभूताः कारणगता विशेषास्सत्त्वादयः। तेषां कार्याणां तन्मूलत्वापादनं तयुक्तपुरुषान्तःकरणविकारद्वारेण । पुरुषस्य च तद्योगः कर्ममूल इति कार्यविशेषारम्भायैव, ज्ञानशक्तिवत्कर्तुः कर्मसम्बन्धः कार्यहेतुत्वेनैवावश्याश्रयणीयः; ज्ञानशक्तिवैचित्र्यस्य च कर्ममूलत्वात् । इच्छायाः कार्यारम्भहेतुत्वेऽपि विषयविशेषविशेषितायास्तस्यास्सत्त्वादिमूलकत्वेन १. युगपत्सर्वोच्छित्तिस्सर्वोत्पत्तिश्च. पा.
For Private And Personal Use Only