SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३५ पा. १.] शास्त्रयोनित्वाधिकरणम्. ____ कुलालादीनां दण्डचक्रायधिष्ठानं शरीरद्वारेणैव दृष्टमिति जगदुपादानोपकरणाधिष्ठानमीश्वरस्याशरीरस्यानुपपन्नमिति चेत् नः संकल्पमात्रेणैव परशरीरगतभूतवेतालगरलाद्यपगमविनाशदर्शनात् । कथमशरीरस्य परप्रवर्तनरूपस्संकल्प इति चेत्न शरीरापेक्षस्संकल्पः, शरीरस्य संकल्पहेतुत्वाभावात् । मन एव हि संकल्पहेतुः। तदभ्युपगतमीश्वरेऽपि, कार्यत्वेनैव ज्ञानशक्तिवन्मनसोऽपि प्राप्तत्वात् । मानसस्सङ्कल्पस्सशरीरस्यैव, सशरीरस्यैव समनस्कत्वादिति चेत्न, मनसो नित्यत्वेन देहापगमेऽपि मनसस्सद्भावेनानैकान्त्यात् । अतो विचित्रावयवसनिवेशविशेषतनुभुवनादिकार्यनिर्माणे पुण्यपाप परवशः परिमितशक्तिज्ञानः क्षेत्रज्ञो न प्रभवतीति निखिलभुवननिर्माणचतुरोऽचिन्त्यापरिमितज्ञानशक्त्यैश्वर्योऽशरीरस्संकल्पमात्रसाधनपरिनिष्पन्नानन्तविस्तारविचित्ररच. नप्रपश्चः पुरुषविशेष ईश्वरोऽनुमानेनैव सिद्ध्यति । अतः प्रमाणान्तरावसेयत्वाद्ब्रह्मणः नैतद्वाक्यं ब्रह्म प्रतिपादयति ॥ किंच-अत्यन्तभिन्नयोरेव मृद्रव्यकुलालयोनिमित्तोपादानत्व - दर्शनेन आकाशादेर्निरवयवर द्रव्यस्य कार्यत्वानुपपत्त्या च नैकमेव ब्रह्म कृत्स्नस्य जगतो निमित्तमुपादानं च प्रतिपादयितुं शक्नोति इति ॥ ___- (सिद्धान्तः).-..-. एवं प्राप्ते ब्रूमः यथोक्तलक्षणं ब्रह्म जन्मादिवाक्यं बोधयत्येव । कुतः? शास्त्रैकप्रमाणकत्वाद्ब्रह्मणः । यदुक्तं सावयवत्वादिना कार्य सर्व जगत् । कार्यच तदुचितकर्तृविशेषपूर्वकं दृष्टमिति निखिलजगन्निर्माणतदुपादानोपकरणवेदनचतुरः कश्चिदनुमेयः इति । तदयुक्तम् , महीमहार्णवादीनां कार्यत्वेऽप्येकदैवैकेन निर्मिता इत्यत्र प्रमाणाभावात् । न चैकस्य घटस्येव सर्वेषामेकं कार्यत्वम् , येनकदैवैकः कर्ता स्यात् । पृथग्भूतेषु १. परवशपरिमितशक्तिशान: पा. । २. द्रव्यत्वात्कार्यत्वानुपप. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy