________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३४
[अ. १.
शारीरकमीमांसाभाष्ये नानधिष्ठितयोस्तयोरचेतनयोः फलहेतुत्वानुपपत्तेः सर्वकर्मानुगुणसर्वफलमदान चतुरः कश्चिदास्थेयः ; वर्धकिनाऽनाधिष्ठितस्य वास्यादेरचेतनस्य देशकालाद्यनेकपरिकरसन्निधानेऽपि यूपादिनिर्माणसाधनत्वादर्शनात् । बीजारादेः पक्षान्तर्भावेन तैर्व्यभिचारापादनं श्रोत्रियवेतालानामनभिज्ञताविजृम्भितम् । तत एव सुखादिभिर्व्यभिचारवचनमपि तथैव । न च लाघवेोभयवादिसंप्रतिपन्न क्षेत्रज्ञानामेव ईदृशाधिष्ठातृत्वकल्पनं युक्तम्, तेषां सूक्ष्मव्यवहितविप्रकृष्टदर्शनाशक्तिनिश्चयात् । दर्शनानुगुजैव हि सर्वत्र कल्पना । न च क्षेत्रज्ञवदीश्वरस्याशक्तिनिश्वयोऽस्ति । अतः प्रमाणान्तरतो न तत्सिद्ध्यनुपपत्तिः । समर्थकर्तृपूर्वकत्व नियतकार्यत्वहेतुना सिध्यन् स्वाभाविकसवर्थसाक्षात्कारतनियमनशक्तिसंपन्न १ एव सिध्यति ||
Acharya Shri Kailassagarsuri Gyanmandir
नैश्वर्याद्यापादनेन धर्मविशेषविपरीतसाधनत्वमुन्नीतम् ; तदनुमानवृत्तानभिज्ञत्वनिबन्धनम्, सपक्षे सह दृष्टानां सर्वेषां कार्यस्याहेतुभूतानां च धर्माणां लिङ्गिन्यमाप्तेः ।।
एतदुक्तं भवति- केनचित् किंचित् क्रियमाणं स्वोत्पत्तये कर्तुः स्वनिर्माणसामर्थ्य स्वोपादानोपकरणज्ञानं चापेक्षते ; न त्वन्यासामर्थ्यमन्याज्ञानं च हेतुत्वाभावात् । स्वनिर्माणसामर्थ्यस्वोपादानोपकरणज्ञानाभ्यामेव स्वोत्पत्तावुपपन्नायां संबन्धितया दर्शनमात्रेणाकिंचित्करस्यार्थान्तराज्ञानादेर्हेतुत्वकल्पनायोगात् इति । किंच क्रियमाणवस्तुव्यतिरिक्तार्थाज्ञानादिकं किं सर्वविषयं क्रियोपयोगि ; उत कतिपयविषयम् । न तावत्सर्वविषयम् ; नहि कुलालादिः क्रियमाणव्यतिरिक्तं किमपि न जानाति । नापि कतिपयविषयम्, सर्वेषु कर्तृषु तत्तदज्ञानाशक्त्यनियमेन सर्वेषामज्ञानादीनां व्यभिचारात् । अतः कार्यत्वस्यासाधकानामनीश्वरत्वादीनां लिङ्गिन्यप्राप्तिरिति न विपरीतसाधनत्वम् ॥
१. एव हि सिध्यति . पा.
For Private And Personal Use Only