________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३
पा. १.]
शास्त्रयोनित्वाधिकरणम्. ग्रहवताऽनासकामेन निर्मितं दृष्टमिति तथाविधमेव चेतनं कर्तारं साधयनयं कार्यत्वहेतुस्सिपाधयिषितपुरुषसार्वज्यसर्वैश्वर्यादिविपरीतसाधनाद्विरुद्धस्स्यात् । न चैतावता सर्वानुमानोच्छेदप्रसङ्गः । लिङ्गिनि प्रमाणान्तरगोचरे लिङ्गबलोपस्थापिता विपरीतविशेषास्तत्प्रमाणप्रतिहतगतयो निवर्तन्ते । इह तु सकलेतरप्रमाणाविषये लिङ्गिनि निखिलनिर्माणचतुरे अन्वयव्यतिरेकावगताविनाभावनियमा धर्मास्सर्व एवाविशेषेण प्रसज्यन्ते । निवर्तकप्रमाणाभावात्तथैवावतिष्ठन्ते । अत आगमाहते कथमीश्वरस्सेत्स्यति ॥
अत्राहुः--सावयवत्वादेव जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते। भवन्ति च प्रयोगाः-विवादाध्यासितं भूभूधरादि कार्य, सावयवत्वात्, घटादिवत् । तथा विवादाध्यासितमवनिजलधिमहीधरादि कार्य, महत्त्वे सति क्रियावत्त्वात् , २घटवत्। तनुभुवनादि कार्य,महत्त्वे सति मूर्तत्वात् , २घटवत् इति। सावयवेषु द्रव्येषु'इदमेव क्रियते नेतरत्' इति कार्यत्वस्य नियामकं सावयवत्वातिरेकि रूपान्तरं नोपलभामहे । कार्यत्वप्रतिनियतं शक्यक्रियत्वं शक्योपादानादिविज्ञानत्वं चोपलभ्यतइति चेत् -- न; कार्यत्वेनानुभतेऽपि विषये ज्ञानशक्ती कार्यानुमेये-इत्यन्यत्रापि सावयवत्वादिना कार्यत्वं ज्ञातमिति ते च प्रतिपन्ने एवेति न कश्चिद्विशेषः । तथाहि घटमणिकादिषु कृतेषु कार्यदर्शनानुमितकर्तृगततन्निर्माणशक्तिज्ञानः पुरुषोऽदृष्टपूर्व विचित्रसन्निवेशं नरेन्द्रभवनमालोक्यावयवसनिवेशविशेषेण तस्य कार्यत्वं निश्चित्य तदानीमेव कर्तुस्तज्ज्ञानशक्तिवैचित्र्यमनुमिनोति । अतस्तनुभुवनादेः कार्यत्वे सिद्धे सर्वसाक्षात्कारतन्निर्माणादिनिपुणः कश्चित्पुरुषविशेषस्सिद्ध्यत्येव ॥
किंच-सर्वचेतनानां धर्माधर्मनिमित्तेऽपि सुखदुःखोपभोगें चेत१. विपरीता विशेषाः. पा.
३. कार्यानुमेये । अन्यत्रापि. पा. २. घटादिवत् . पा.
For Private And Personal Use Only