________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४ शारीरकमीमांसाभाष्ये
[अ. १. कर्मशास्त्रेण भेदः प्रतीयते। भेदाभेदयोः परस्परविरोधे सत्यनाद्यविद्यामूलत्वेनापि भेदप्रतीत्युपपत्तेरभेद एव परमार्थ इति निश्चीयते । तत्र ब्रह्मध्याननियोगेन तत्साक्षात्कारफलेन निरस्तसमस्ताविद्याकृतविविधभेदाद्वितीयज्ञानैकरसब्रह्मरूपमोक्षः प्राप्यते ।।
न च वाक्याद्वाक्यार्थज्ञानमात्रेण ब्रह्मभावसिद्धिः, अनुपलब्धेः, विविधभेददर्शनानुवृत्तेश्च। तथा च सति श्रवणादिविधानमनर्थकं स्यात्।।
अथोच्येत-'रज्जुरेषा न सर्पः' इत्युपदेशेन सर्पभयनिवृत्तिदर्शनात् रज्जुसर्पवत् बन्धस्य च मिथ्यारूपत्वेन ज्ञानबाध्यतया तस्य वाक्यजन्यज्ञानेनैव निवृत्तियुक्ता ; न नियोगेन । नियोगसाध्यत्वे मोक्षस्यानित्यत्वं स्यात् , स्वर्गादिवत्। मोक्षस्य नित्यत्वं हि सर्ववादिसम्प्रतिपन्नम् । किञ्च धर्माधर्मयोः फलहेतुत्वं वफलानुभवानुगुणशरीरोत्पादनद्वारेणेति ब्रह्मादिस्थावरानचतुर्विधशरीरसम्बन्धरूपसंसारफलत्वमवर्जनीयम् । तस्मान्न धर्मसाध्यो मोक्षः तथा च श्रुतिः-१"न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः" इति।अशरीरत्वरूपे मोक्षे धर्माधर्मसाध्यप्रियाप्रियविरहश्रवणात् , न धर्मसाध्यमशरीरत्वमिति विज्ञायते। न च नियोगविशेषसाध्यफलविशेषवत् ध्याननियोगसाध्यमशरीरत्वम् , अशरीरत्वस्य स्वरूपत्वेनासाध्यत्वात् । यथाऽऽहुः श्रुतयः-२"अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति"३"अप्राणो ह्यमनाइशुभ्रः"४"असङ्गो ह्ययं पुरुषः" इत्याद्याः। अतोऽशरीरत्वरूपो मोक्षो नित्य इति न धर्मसाध्यः। तथा च श्रुतिः-*"अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताद्भव्याच यत्तत्पश्यसि तद्वद" इति । १. छा. ८-प्र. १२-ख. १॥
३. मुण्ड. २-मु. १-ख. २ ॥ *२. कठ. २-वल्ली. २२. १४॥
४, बु. ६-अ. ३-ब्रा. १५॥
For Private And Personal Use Only