________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( वेदान्तदीपे जन्माद्यधिकरणम् )---
जन्माद्यस्य यतः।१।१।२॥ तैत्तिरीयके १“यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिशासख । नब्रह्म" इत्येतद्वाक्यं विषयः । किमेतजिज्ञास्यतया प्रतिज्ञातं ब्रह्म जगजन्मादिकारणतया लक्षणतः प्रतिपादयितुं शक्नोति न वेति संशयः। न शक्नौतीति पूर्वः पक्षः। कुतः? जगजन्मादीनामुपलक्षणतया विशेषणतया वा ब्रह्मलक्षणत्वासम्भवात्।उपलक्षणत्वे ह्युपलक्ष्यस्याऽकारान्तरयोगोऽपेक्षितःन चेह तदस्ति। अतः उपलक्षणत्वं न सम्भवति। विशेषणत्वेऽप्यनेकविशेषणविशिष्टतया अपूर्वस्यैकस्य र प्रतिपादकत्वं न सम्भवति । विशेषणानां ब्यावर्तकत्वेन विशेषणबहुत्वे ब्रह्मबहुत्वप्रसक्तेः । राद्धान्तस्तुएकस्मिन्नविरुद्धानां विशेषणानाम् अनेकत्वेऽपि श्यामत्वयुवत्वादिविशिष्टदेवदत्तवज्जगजन्मादिविशिष्टं ३ब्रह्मैकमेव विशेष्यं भवति । ४उपलक्षणत्वे जन्मादि. भिरुपलक्ष्यस्य ब्रह्मशब्दावगतबृहत्त्वाद्याकाराश्च सन्तीति जगजन्मादिकारणं ब्रह्मेति लक्षणतः प्रतिपादयितुं शक्नोति-इति । सूत्रार्थ:-अस्य विविधविचित्रभोक्तृभोग्यपूर्णस्य जगतः, यतः जन्मादि, तब्रह्मेति प्रतिपादयितुं शक्रोत्येतद्वाक्यम्-इति ॥
इति वेदान्तदीपे जन्माद्यधिकरणम् ॥ २ ॥
.....( श्रीशारीरकमीमांसाभाष्ये शास्त्रयोनित्वाधिकरणम् )...
जगजन्मादिकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् । तदयुक्तम् । तद्धि न वाक्यप्रतिपाद्यम् । अनुमानेन सिद्धरित्याशङ्कयाह
शास्त्रयोनित्वात्। १।१॥३॥ शास्त्रं यस्य योनिः कारणं प्रमाणम् , तच्छास्त्रयोनि । तस्य भावश्शास्त्रयोनित्वम् । तस्मात् ब्रह्मज्ञानकारणत्वात् शास्त्रस्य, तद्योनित्वं १. तै. भृ. १.
३. ब्रह्मैकमेव भवति, पा. २. प्रतिपादनं त. पा.
४. उपलक्षणत्वेऽपि जन्मादि. पा.
For Private And Personal Use Only