________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
ब्रह्मणः । अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणाविषयतया ब्रह्मणश्शास्त्रैकप्रमाणकत्वात् उक्तस्वरूपं ब्रह्म १ " यतो वा इमानि भूतानि" इत्यादिवाक्यं बोधयत्येवेत्यर्थः ॥
शास्त्रयोनित्वाधिकरणम्.
१.
( पूर्वः पक्षः
ननु - शास्त्रयोनित्वं ब्रह्मणो न सम्भवति, प्रमाणान्तरवेद्यत्वाब्रह्मणः । अप्राप्ते तु शास्त्रमर्थवत् ॥
तै, भृ. १.
Acharya Shri Kailassagarsuri Gyanmandir
किन्तर्हि तत्र प्रमाणम् । न तावत् प्रत्यक्षम् । तद्धि द्विविधम्, इन्द्रियसम्भवं योगसम्भवं चेति । इन्द्रियसंभवञ्च बाह्यसम्भवम्, आन्तरसम्भवश्चेति द्विधा । बाह्येन्द्रियाणि विद्यमानसन्निकर्षयोग्यस्वविषयबोधजननानीतिन सर्वार्थसाक्षात्कार तन्निर्माणसमर्थ पुरुषविशेषविषयबोधजननानि । नाप्यान्तरम्, आन्तरसुखदुःखादिव्यतिरिक्तवहिर्विषयेषु तस्य बाह्येन्द्रयानपेक्षमवृत्त्यनुपपत्तेः। नापि योगजन्यम्; भावनाप्रकर्षपर्यन्तजन्मनस्तस्य विशदावभासत्वेऽपि पूर्वानुभूतविषयस्मृतिमात्रत्वान्न प्रामाण्यमिति कुतः प्रत्यक्षता; तदतिरिक्तविषयत्वे कारणाभावात् । तथा सति तस्य भ्रमरूपता । नाप्यनुमानं विशेषतो दृष्टं सामान्यतो दृष्टं वा; अतीन्द्रिये वस्तुनि सम्बन्धावधारणविरहान्न विशेषतो दृष्टम्। समस्त वस्तु साक्षात्कारतन्निर्माणसमर्थ पुरुषविशेषनियतं सामान्यतो दृष्टमपि न लिङ्गमुपलभ्यते ॥
ननु च जगतः कार्यत्वं तदुपादानोपकरणसम्प्रदानप्रयोजनाभिज्ञकर्तृकत्वव्याप्तम्। अचेतनारब्धत्वं जगतश्चैकचेतनाधीनत्वेन व्याप्तम्। सर्वे हि घटादिकार्य तदुपादानोपकरणसम्प्रदानप्रयोजनाभिज्ञकर्तृकं दृष्टम् | अचेतनारब्धमरोगं स्वशरीरमेकचेतनाधीनं च । सावयवत्वेन जगतः कार्यत्वम् ।।
२.
१३१
कार्यसमिति, पा.
For Private And Personal Use Only