SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. तै. भृ. १. १. २. छा. ६.२.१. * ३. छा, ६.२.३. ४. माध्यन्दिनपाठे. 17 जन्माद्यधिकरणम् पा. १.] १२९ शरीरतया तदात्मभूतमेव ब्रह्म, कदाचिदविभक्तनामरूपचिदचिद्वस्तुशरीरं तत्कारणावस्थम्, कदाचिच्च विभक्तनामरूपचिदचिद्वस्तुशरीरं तत्कार्यावस्थं ब्रह्न सर्वदा चिदचिद्वस्तुशरीरतया तद्विशिष्टत्वेऽपि ब्रह्मणः परिणामित्वापुरुषाश्रयत्वे शरीरभूतचेतनाचेतनवस्तुगते । आत्मभूतं ब्रह्म सर्वदा निरस्तनिखिलदोषगन्धानवधि कातिशयासङ्घयेयज्ञानानन्दाद्यपरिमितोदार गुणसागरमवतिष्ठतइति ब्रह्मैव जगन्निमित्तमुपादानञ्चेति १ यतो वा इमानि " इत्यादिवाक्यं प्रतिपादयत्येवेति' जन्माद्यस्य यतः तत् ब्रह्म' इति सुष्ठक्तम् । २" सदेव सोम्येदमग्रआसीत्, एकमेवाद्वितीयम् " ३" तदैक्षत बहु स्यां प्रजायेय " इति । अ स्यचायमर्थः - ४ " यस्यात्मा शरीरम् " ५ " यस्याक्षरं शरीरम्, यस्य पृथिवी शरीरम्, यस्याव्यक्तं शरीरम् । एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः " इत्यादिश्रुतेः ब्रह्मणः सर्वदा चिदचिद्वस्तुशरीरकत्वात् सदेवेदमिदानीं स्थूलचिचिद्वस्तुशरीरकत्वेन विभक्तनामरूपम् अग्रे प्रलयकाले, सूक्ष्मदशापन्नचिचिद्वस्तुशरीरतया नामरूपविभागानईमेकमेवासीत् । ६खयमेव ब्रह्म सर्वज्ञं सर्वशक्ति निमित्तान्तरानपेक्षमद्वितीयञ्चातिष्ठत् । "" तदैक्षत बहु स्यां प्रजायेय" इति तन्नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरकतया एकमेवावस्थितं नामरूपविभागार्हस्थूलदशापत्त्या बहुप्रकारं स्यामिति उपेक्षत। 'स्यां, प्रजायेय' इति व्यष्टिसमष्टिव्यपदेशः । चिदचितोः परस्य च प्रलयकालेऽपि व्यवहारानहसूक्ष्मभेदः ८ सर्ववेदान्तिभिरभ्युपगतः, अविद्याकृतभेदस्य उपाधिकृतभेदस्य च अनादित्वाभ्युपगमात् । यांस्तु विशेषः - ब्रह्मवाशम् उपाधिसम्बद्धं चेति सर्वश्रुतिस्मृतिन्यायविरोधोऽन्येषाम् तदभावादविरोधश्चास्माकम् - इति ॥ इति वेदान्तसारे जन्माद्यधिकरणम् ॥ २ ॥ " ܕ Acharya Shri Kailassagarsuri Gyanmandir ५. सुबालो. ७. ख. ६. स्वयमेव सर्वज्ञ. पा. ७. ऐक्षतेतिचिदचिदतो:. पा. ८. सर्वेर्वेदान्तवादिभिरभ्युपेतः. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy