________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८ वेदान्तसारे
[अ.१. तृत्वेनासर्वज्ञत्वेन उपासनायत्तमुक्तित्वेन निरवद्यत्वेन सर्वशत्वेन सत्यसङ्कल्पत्वेन सर्वेश्वरत्वेन समस्तकल्याणगुणाकरत्वादिना च स्वरूपस्य स्वभावस्य नानात्वव्यपदेशात् तयोरेव"तत्त्वमसि' २ "अयमात्मा ब्रह्म" ३ " योऽसौ सोऽहं योऽहं सोऽसौ” ४ "अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद" ५" अकृत्स्नो ह्येषः...आत्मेत्येवोपासीत" "ब्रह्म दाशा ब्रह्म दासा ब्रह्म मे कितवाः" इतिच सर्वजीवात्मव्यापित्वेनाभेदव्यपदेशाच, उभयव्यपदेशाविरोधेन परमात्मांशो जीवात्मेत्यभ्युपगन्तव्यम् । न केवलं न्यायसिद्धमिदं, श्रुतिस्मृतिभ्याञ्चांशत्वमुक्तं जीवात्मनः ७ "पादोऽस्य विश्वा भूतानि” “ममैवांशो जीवलोके जीवभूतस्सनातनः" इति । अंशत्वन्नाम एकवस्त्वेकदेशत्वम्। तथा सत्युभयोरेकरवस्तुत्वेनाविरोधो न स्यादित्याशकन्य, १० " प्रकाशादिवत्तु नैवं परः" इति परिहरति । अन्यविशेषणतैकस्वभावप्रकाशजातिगुणशरीरविशिष्टानग्निव्यक्तिगुण्यात्मनः प्रति प्रकाशजातिगुणशरीराणां यथा अंशत्वम् ; एवं परमात्मानं प्रत्यगात्मशरीरकं प्रति प्रत्यगात्मनोऽशत्वम्। एवम् अंशत्वे यत्स्वभावोऽशभूतो जीवः, नैवमंशी परमात्मा, सर्वत्र विशेषणविशेष्ययोस्वरूपस्वभावभेदात्।एवञ्च ११"कर्ता शास्त्रार्थवत्त्वात्"१२"परात्तु तच्छ्रुतेः" इत्यनन्तरोक्तश्च न विरुध्यते।एवं प्रकाशशरीरवजीवात्मनाम् अंशत्वं पराशरादयस्स्मरन्ति च-१३"एकदेशस्थितस्याग्नेः ज्यो. स्ना विस्तारिणी यथा।परस्य ब्रह्मणशक्तिस्तथेदमखिलं जगत्"१४“यत्किञ्चित् सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य सम्भूतौ तत्सर्व वै हरेस्तनुः" १५“ते सर्वेसर्वभूतस्य विष्णोरंशसमुद्भवाः" इति। अन्यथा पारमार्थिकापारमार्थिकोपाधिसमाश्रयणे प्रत्यगात्मनोऽशत्वे ब्रह्मण एव वेदान्तनिवास्सर्वे दोषा भवेयुरिति१६"आभासा एव च"इत्या१७दिसूत्रैरुक्तम्।अतस्सर्वदा चिदचिद्वस्तु १. छा. ६. ८. ७.
। १०. शारी. २ ३, ४५. २. बृ. ६.४.५. ३. ऐतरेयिण इति शाङ्क- ११. शारी. २. ३. ३३. रीये (३३. ३६.) ४. ब. ३. ४. १०.
१२, शारी. २. ३. ४०. ५. बृ. ३. ४. ७.
१३. पि. पु. १. २२. ५६.
१४. वि. पु. १. २२. ३८. ६. अथर्व-संहितोप. ७. यजु. आरण्य. १२.१३. पुरुषसूक्ते. ३. १५. वि. पु. १. २२. २०. ८. गी. १५-७.
१६. शारी, २. ३. ४९. ९. वस्तुत्वेन विरोध: पा.
। १७. दिनोक्तम्. पा.
For Private And Personal Use Only