SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अ. १. १२६ वेदान्तसारे व्यवस्थितेर्टष्टान्तभावात् ब्रह्मणि न दोषप्रसक्तिः इति नासामञ्जस्यं वेदान्तवाक्यस्येति १“न तु दृष्टान्तभावात्"इत्युक्तम् । दृष्टान्तश्च-देवमनुष्यादिशब्दवाच्यस्य सशरीरस्थाऽत्मनः 'मनुष्यो बालो युवा स्थविरः' इति नानावस्थाप्राप्तावपि बालत्वयुवत्वस्थविरत्वादयः शरीरगता दोषाः नात्मानं स्पृशन्ति, आत्मगताश्च ज्ञानसुखादयः न शरीरमिति । अतः कार्यावस्थं कारणावस्थं च ब्रह्म प्रत्यगात्म. शरीरतया तदात्मभूतमिति प्रत्यगात्मवाचिना शब्देन ब्रह्माभिधाने तच्छब्दसामानाधिकरण्ये च हेतुं वक्तुम्, निरसनीयम्मतद्वयम् २ "प्रतिज्ञासिद्धलिङ्गमाश्मरथ्यः,"३"उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः"इत्युपन्यस्य४"अवस्थिते. रिति काशकृत्स्नः" इति हेतुरुक्तः। ५"तत्सृष्ट्वा। तदेवानुप्राविशत्। तदनुप्रविश्य। सच त्यञ्चाभवत्" इत्यादिना प्रत्यगात्मन आत्मतयाऽवस्थानात् ब्रह्मणस्तच्छब्देनाभिधानम्, तत्सामानाधिकरण्येन व्यपदेशश्चेत्युक्तम् । तथा ६"वैषम्यनघण्ये न सापेक्षत्वात्" ७"न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च" इति देवमनुष्यादिविषमसृष्टेर्जीवकर्मनिमित्तत्वम्, जीवानां तत्तत्कर्मप्रवाहाणाञ्चानादित्वं प्रतिपाद्य,तदनादित्वं च ८"नित्यो नित्यानां चेतनश्चेतनानाम्" ९"शाशो द्वौ"इत्यादिश्रुतिषूपलभ्यत इत्युक्तवा,तदनादित्वेऽपि प्रलयकाले चिद्चिद्वस्तुनो कृभोग्ययोर्नामरूपविभागाभावात् , १०"आत्मा वा इदमेकएवाग्र आसीत् नान्यत् किञ्चन मिषत्" इत्यादावेकत्वावधारणमुपपद्यतइति सूत्रकारेण स्वयमेवोक्तम् । तथा च११"नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः" इति प्रत्यगात्मनो नित्यत्वादनुत्पत्तिमुक्त्वा १२ "शोऽत एव" इति तस्य ज्ञातृत्वमेव स्वरूपमित्युक्तम्। १३ "उत्क्रान्तिगत्यागतीनाम्" इत्यादिनाऽणुत्वञ्चोक्तम् । १४"तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञवत्" १५"यावदात्मभावित्वाञ्च न दोषस्तदर्शनात्" इति ज्ञातु. रेवात्मनो ज्ञानशब्देन व्यपदेशो ज्ञानगुणसारत्वात् ज्ञानकनिरूपणीयस्वभावत्वाञ्चेत्युक्तम् । १६ "नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा" इति ज्ञानमात्रस्वरूपात्मवादे हेत्वन्तरायत्तशानवादे, सर्वगतात्मवादे च दोष उक्तः। १. शारी. २. १. ९. १०. ऐतरेये. १. १. १. २. ३. ४. शारी. १. ४. २०. २१. २२. ११. १२. शारी-२ ३. १८, १९. ५. ते. आ. ६. २, ३. १३. शारी. २. ३. २०. ६. ७. शारी २.१-३४., ३५. १४. १५, शारी. २. ३. २९, ३०. ८. श्वे. ६. १३. १६. शारी, २.३. ३२. ९. थे. १-९. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy