________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा १. जन्माद्यधिकरणम्.
१२५ शायते। तथा *"तदैक्षत बहु स्यां प्रजायेय" इत्यात्मन एव विचित्रस्थिरत्रसरूपेण बहुभवनं सङ्कल्प्य तथैव सृष्टिवचनाच्च । अतश्श्रुतावपि 'यतः' इति हेतौ पञ्चमी । अत्रैव ब्रह्मणो जगन्निमित्तत्वमुपादानत्वञ्च प्रतिपादितम् । अर्थविरोधात् १"अस्मान्मायी सृजते विश्वमेतत्" इत्यादि विशेषश्रुत्या चाक्षिप्य, २ "प्रकृतिश्च प्र. तिक्षादृष्टान्तानुपरोधात्" ३"अभिध्योपदेशाच" ४“ साक्षाच्चोभयानानात्" ५ "आत्मकृतेः” इत्यादिभिः सूत्रैः परिहरिष्यते। ननु च सर्वशं सर्वशक्ति सत्यसङ्कल्पं निरवद्यतया निरस्तसमस्तापुरुषार्थगन्धं ब्रह्मैवाऽत्मानं विचित्रचिदचिन्मिनं जगद्र्पमिदं सर्वमसृजतेति कथमुपपद्यते ? । तदेतत् सूत्रकारस्स्वयमेव परिचोद्य परिहरिष्यति। ६"अपीतौ तद्वत् प्रसङ्गादसमञ्जसम्" ७"इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः” इति चोद्यम्; परिहारस्तु"न तु दृष्टान्तभावात्" ९"अधिकन्तु भेदनिर्देशात्" इति च । १०"क्षरन्त्वविद्या ह्यमृतन्तु विद्या, विद्या विद्ये ईशते यस्तु सोऽन्यः” ११"स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिपः"१२"क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः" अचिद्वर्ग स्वात्मनो भोग्यत्वेन हरतीति भोक्ता हर इत्युच्यते । १३"द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः॥ अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः" इत्यादिश्रुतिस्मृति१४गणः प्रत्यगात्मनो ब्रह्मणो भेदेन निर्देशात् परमपुरुषार्थभागिनः प्रत्यगात्मनोऽधिकमर्थान्तरभूतं ब्रह्म । तञ्च प्रत्यगात्मशरीरतया तदात्मभूतम् । १५ प्रत्यगात्मनस्तच्छरीरत्वं ब्रह्मणस्तदात्मत्वश्च १६ “य आत्मनि तिष्ठन्... यस्यात्मा शरीरम्" १७“एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण" इत्यादिश्रुतिशतसमधिगतम् । सशरीरस्यात्मनः कार्यावस्थाप्राप्तावपि गुणदोष. * छा.उप.६.२.३. १. श्वे. ४.९.! ११. श्वे. ६. ९. १२. श्वे. १.१०. २.३.४.५.शारी.१-४.२३,२४,२५,२६. १३. गी. १५. १६, १७. १८, ६. शारी. २-१-८.
१४. गणेन प्रत्यगात्मनो भेदनिर्देशात्, पुरुषा ७. शारी. २-१. २१.
र्थभागिन: पा. ८. शारी. २. १. ९,
१५, प्रत्यगत्मनस्तु शरीरत्वं. पा. ९. शारी. २. १. २२.
१६, माध्यन्दिनपाठे. १०. श्वे. ५, १.
। १७. सुबालोप. ७-ख.
For Private And Personal Use Only