________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४ शारीरकमीमांसाभाष्ये
[अ. १. ह्मेति निर्वचनात् । तच्च ब्रह्म जगजन्मादिकारणमितिवचनाच्च । एवमुत्तरेष्वपि मूत्रगणेषु सूत्रोदाहृतश्रुतिगणेषु च ईक्षणायन्वयदर्शनात् सूत्राणि सूत्रोदाहृतश्रुतयश्च न तत्र प्रमाणम् । तर्कश्च-साध्यधर्माव्यभिचारिसाधनधान्वितवस्तुविषयत्वान्न निर्विशेषवस्तुनि प्रमाणम्। जगज्जन्मादि१भ्रमो यतस्तद्ब्रह्मेति खोत्प्रेक्षा पक्षेऽपि न निर्विशेषवस्तुसिद्धिः,भ्रममूलमज्ञानम् , अज्ञानसाक्षि ब्रह्मेत्यभ्युपगमात् । साक्षित्वं हि-प्रकाशैकरसतयैवोच्यते । प्रकाशत्वं तु जडाव्यावर्तकं, स्वस्य परस्य च व्यवहारयोग्यतापादनस्वभावेन भवति । तथा सति सविशेषत्वम् । तदभावे प्रकाशतैव न स्यात् । तुच्छतैव स्यात् ।
इति श्रीशारीरकमीमांसाभाष्ये जन्मायधिकरणम् ॥ २॥
---( वेदान्तसारे जन्माद्यधिकरणम् ॥ २॥).-..
जन्माद्यस्य यतः।१।१॥२॥ ३अस्य-विचित्रचिदचिन्मिश्रस्य व्यवस्थितसुखदुःखोपभोगस्य जगतः, जन्मस्थितिलयाः यतः,तत् ब्रह्मेति प्रतिपादयति श्रुतिरित्यर्थः,४“यतो वा इमानि भूतानि जायन्ते...तद्ब्रह्म" इति। सूत्रे 'यत' इति हेतौ पञ्चमी, जनिस्थितिलयानां साधारणत्वात् । जनिहेतुत्वञ्च निमित्तोपादानरूपं विवक्षितम्, 'यतः' इति हि ५श्रुतिः । इहोभयविषया कथमिति चेत् , *"यतो वा इमानि" इति ६प्रसिद्धवनिर्देशात्,प्रसिद्धेश्च उभयविषयत्वात्। ७"सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयम्... तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्यत्र, 'स. देव इदम् अग्रे एकमेव आसीत्' इति उपादानतां प्रतिपाद्य, 'अद्वितीयम्' इति अधिष्ठात्रन्तरनिवारणात् सच्छब्दवाच्यं ब्रह्मैव निमित्तमुपादानश्चेति वि. १. भ्रमा यत:. पा. २. पक्षे. च. ५. श्रुतिरुभयविषया. पा. ३. अस्य चिदचिन्मिश्रस्य. पा.
६. प्रसिद्धनिदशेत् . पा. ४. * ते. भृ, अनु .१.
७. छा. ६.२.१.
For Private And Personal Use Only