________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
जन्माद्यधिकरणम्.
१२३
प्रतिपन्नं ब्रह्मेति च जन्मादीनां तथा प्रतिपन्नस्य लक्षणत्वेन नाकारान्तराप्रतिपत्तिरूपानुपपत्तिः ॥
Acharya Shri Kailassagarsuri Gyanmandir
जगज्जन्मादीनां विशेषणतया लक्षणत्वेऽपि न कश्चिद्दोषः । लक्षणभूतान्यपि विशेषणानि स्वविरोधिव्यावृत्तं वस्तु लक्षयन्ति । अज्ञातस्वरूपे वस्तुन्येकस्मिन् लिलक्षयिषितेऽपि परस्पराविरोध्यनेकविशेषणलक्षणत्वं न भेदमापादयति । अत्र तु कालभेदेन जन्मादीनां न विरोधः ॥
१. तै-भृ. १. १.
२. तै- आनन्द, १. १.
१ * यतो वा इमानि भूतानि जायन्ते" इत्यादिकारणवाक्येन प्रतिपन्नस्य जगज्जन्मादिकारणस्य ब्रह्मणस्सकलेतरव्यावृत्तं स्वरूपमभिधीयते - २" सत्यं ज्ञानमनन्तं ब्रह्म" इति। तत्र सत्यपदं निरुपाधिकसत्तायोगि ब्रह्माह | तेन विकारास्पदमचेतनं तत्संसृष्टश्वेतनश्च व्यावृत्तः । नामान्तरभजनाहवस्थान्तरयोगेन तयोर्निरुपाधिकसत्ता योगरहितत्वात् । ज्ञानपदं-नित्यासङ्कुचितज्ञानैकाकारमाह । तेन कदाचित् सङ्कचितज्ञानत्वेन मुक्ता व्यावृत्ताः । अनन्तपदं - देशकालवस्तुपरिच्छेदरहितं स्वरूपमाह । सगुणत्वात्स्वरूपस्य स्वरूपेण गुणैश्चानन्त्यम् । तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणास्सातिशयस्वरूपस्वगुणाः नित्याः व्यावृत्ताः । विशेषणानां व्यावर्तकत्वात् । ततः २" सत्यं ज्ञानमनन्तं ब्रह्म" इत्यनेन वाक्येन जगज्जन्मादिनाऽवगतस्वरूपं ब्रह्म सकलेतरवस्तुविसजातीयमिति लक्ष्यत इति नान्योन्याश्रयणम् । अतस्सकलजगज्जन्मादिकारणं निरवद्यं सर्वज्ञं सत्यसङ्कल्पं सर्वशक्ति ब्रह्म लक्षणतः प्रतिपत्तुं शक्यत इति सिद्धम् ।।
ये तु निर्विशेषवस्तु जिज्ञास्यमिति वदन्ति । तन्मते " ब्रह्मजिज्ञासा" "जन्माद्यस्य यतः" इत्यसङ्गतं स्यात्; निरतिशयबृहत् बृंहणं च ब्र* 'यतो वा इमानि" इत्यादि. पा. ३. सर्वशक्ति सत्य संकल्पं, पा,
For Private And Personal Use Only