SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२२ [अ. १. शारीरकमीमांसाभाष्ये ब्रह्मशब्देक्यादवाप्यैक्यं प्रतीयत इति चेत् न, अज्ञातगोव्यक्तेः जिज्ञासोः पुरुषस्य 'खण्डो मुण्डः पूर्णशृङ्गो गौः' इत्युक्ते गोपदैक्येऽपि खण्डत्वादिव्यावर्तकभेदेन गोव्यक्ति बहुत्वप्रतीतेः ब्रह्मव्यक्तयोऽपि बह्वयस्स्युः। अत एव लिलक्षयिषिते वस्तुनि एषां विशेषणानां संभूय लक्षणत्वमप्यनुपपन्नम् ॥ नाप्युपलक्षणत्वेन लक्षयन्ति, आकारान्तराप्रतिपत्तेः । उपलक्षणानामेकेनाकारेण प्रतिपन्नस्य केनचिदाकारान्तरेण प्रतिपत्तिहेतुत्वं हि दृष्टं 'यत्रायं सारसः, स देवदत्तकेदार:' इत्यादिषु ॥ ननुच 'सत्यं ज्ञानमनन्तं ब्रह्म' इति प्रतिपन्नाकारस्य जगज्जन्मादीन्युपलक्षणानि भवन्ति । न, इतरेतरप्रतिपन्नाकारापेक्षत्वेन उभयोर्लक्षणवाक्ययोरन्योन्याश्रयणात् । अतो न लक्षणतो ब्रह्म प्रतिपत्तुं शक्यत इति ।। ( सिद्धान्तः ) - Acharya Shri Kailassagarsuri Gyanmandir एवं प्राप्तेऽभिधीयते जगत्सृष्टिस्थितिप्रलयैरुपलक्षणभूतैर्ब्रह्म प्रतिपत्तुं शक्यते। न च उपलक्षणोपलक्ष्याकारव्यतिरिक्ताकारान्तराप्रतिपत्तेब्रह्मप्रतिपत्तिः । उपलक्ष्यं ह्यनवधिकातिशयबृहत्, बृंहणं च ; बृहतेर्धातोस्तदर्थत्वात् । तदुपलक्षणभूताश्च जगज्जन्मस्थितिलयाः । 'यतो, येन, यत्' इति प्रसिद्धवनिर्देशेन यथाप्रसिद्धि जन्मादिकारणमनूद्यते । प्रसिद्धिश्व *""सदेवसोम्येदमग्र आसी देकमेवाद्वितीय” “तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्येकस्यैव सच्छब्दवाच्यस्य निमित्तोपादानरूपकारणत्वेन तदपि 'सदेवेदमये एकमेवासीत्' इत्युपादानतां प्रतिपाद्य 'अद्वितीयम्' इत्य धिष्ठात्रन्तरं प्रतिषिध्य ३ " तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्येकस्यैव प्रतिपादनात् । तस्मात् यन्मूला जगज्जन्मस्थितिलयाः तद्ब्रह्मेति जन्मस्थितिलयाः स्वनिमित्तोपादानभूतं वस्तु ब्रह्मेति लक्षयन्ति । जगन्निमित्तोपादानताक्षिप्तसर्वज्ञत्वस त्यसङ्कल्पत्वविचित्रशक्तित्वाद्याकारबृहत्त्वेन १. तै. आनन्द. १.१. २. प्रसिद्धवज्जन्मादिकारण निर्देशेन.पा. * ३. छा. उप. ६.२.१.३ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy