________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- श्रीशारीरकमीमांसाभाष्ये-जन्माद्यधिकरणम् ॥२॥)...'किं पुनस्तब्रह्म, यज्जिज्ञास्यमुच्यते' इत्यत्राह
जन्माद्यस्य यतः।११।२॥ जन्मादीति-सृष्टिस्थितिपलयम्। तद्गुण' संविज्ञानो बहुव्रीहिः।अस्यअचिन्त्यविविधविचित्ररचनस्य नियतदेशकालफलभोगब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रस्य जगतः । यतः-यस्मात्सर्वेश्वरान्निखिलहेयमत्यनीकखरूपात्सत्यसंकल्पात् ज्ञानानन्दायनन्तकल्याणगुणात् सर्वज्ञात् सर्वशक्तेः परमकारुणिकात् परस्मात्पुंसः सृष्टिस्थितिपलयाः प्रवर्तन्ते ; तत् ब्रह्मेति सूत्रार्थः॥
...(पूर्वःपक्षः)-..२ "भृगुवै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्म" इत्यारभ्य ३“यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म"इति श्रूयते । तत्र संशयः-किमस्माद्वाक्यात् ब्रह्म लक्षणतः प्रतिपत्तुं शक्यते, न वा-इति। किं प्राप्तम् ? न शक्यमिति । न तावजन्मादयो विशेषणत्वेन ब्रह्म लक्षयन्ति , अनेकविशेषणव्यात्तत्वेन ब्रह्मणोऽनेकत्वप्रसक्तेः । विशेषणत्वं हि व्यावर्तकत्वम् ॥
ननु 'देवदत्तश्श्यामो युवा लोहिताक्षस्समपरिमाणः' इत्यत्र विशेषणबहुत्वेऽप्येक एव देवदत्तः प्रतीयते। एवमत्राप्येकमेव ब्रह्म भवति। नैवम्-तत्र प्रमाणान्तरेणैक्यप्रतीतेरेकस्मिन्नेव विशेषणानामुपसंहारः। अन्यथा तत्रापि व्यावर्तकत्वेनानेकत्वमपरिहार्यम् । अत्र त्वनेनैव विशेषणेन लिलक्षयिषितत्वात् ब्रह्मणः प्रमाणान्तरेणैक्यमनवगतमिति व्यावर्तकभेदेन ब्रह्मबहुत्वमवर्जन यम् ॥ १. संविज्ञानबहुव्रीहिः. पा.
२. ३.ते. भृ. १. अनु.
16
For Private And Personal Use Only