SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० वेदान्तदीपे [अ.१. भूतज्ञानादिगुणाविर्भावपूर्वकानन्तमहाविभूत्यनवधिकातिशयानन्दब्रह्मानुभवोऽपुनरावृत्तिरूप इति शारीरकशास्त्रेणोक्तं भवति ॥ अथातो ब्रह्मजिज्ञासा ॥१॥ ब्रह्ममीमांसा विषयः, सा किमारम्भणीया? उतानारम्भणीया? इति संशयः । तदर्थ परीक्ष्यते-वेदान्ताः किं ब्रह्मणि प्रमाणम् ? उत न? इति । तदर्थ परिनिष्पन्नेऽर्थे शब्दस्य बोधनसामर्थ्यावधारणं सम्भवति नेति। न सम्भवतीति पूर्वः पक्षः । सम्भवतीति राद्धान्तः।यदा न सम्भवति, तदा परिनिष्पन्नेऽर्थे शब्दस्य बोधनसामर्थ्याभावात्सिद्धरूपे ब्रह्मणि न वेदान्ताः प्रमाणमिति तद्विचाराकारा ब्रह्ममीमांसा नारम्भणीया । यदा सम्भवति, तदा सिद्धेऽप्यर्थे शब्दस्य बोधनसामर्थ्यसम्भवाद्वेदान्ताः ब्रह्मणि प्रमाणमिति सा चारम्भणीया स्यात् । अत्र पूर्वपक्षवादी मन्यते--वृद्धव्यवहारादन्यत्र व्युत्पत्त्यसम्भवात् , व्यवहारस्य च कार्यबुद्धिपूर्वकत्वेन कार्य एवार्थे शब्दशक्त्यवधारणात् , परिनिष्पन्नेऽर्थे ब्रह्मणि न वेदान्ताःप्रमाणमिति तद्विचाररूपा ब्रह्ममीमांसा नारम्भणीयेति । २सिद्धान्तस्तु-बालानां मातापितृप्रभृतिभिरम्बातातमातुलशशिपशुपक्षिमृगादिषु अङ्गुल्या निर्दिश्य तत्तदभिधायिनश्शब्दान्प्रयुआनः क्रमेण बहुशशिक्षितानां तत्तच्छब्दश्रवणसमनन्तरं स्वात्मनामेव तदर्थबुद्धयुत्पत्तिदर्शनात् , शब्दार्थयोस्सम्बन्धान्तरादर्शनात् , सङ्केतयितृपुरुषाज्ञानाच, बोध्यबोधकभाव एव शब्दार्थयोस्सम्बन्ध इति निश्चिन्वानानां परिनिष्पन्नेऽर्थे शब्दस्य बोधकत्वावधारणं सम्भवतीति ब्रह्मणि३वेदान्तवाक्यानां प्रामाण्यात्तदर्थविचाराकारा ब्रह्ममीमांसा आरम्भणीया-इति॥ सूत्रार्थस्तु–'अथ' इत्यानन्तर्ये । 'अतः' इतिच वृत्तस्य हेतुभावे । ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा, ज्ञातुमिच्छा जिज्ञासा। इच्छायाः इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिहाभिप्रेतम् । पूर्ववृत्तादल्पास्थिरफलकेवलकर्माधिगमादनन्तरं तत एव हेतोरनन्तस्थिरफलब्रह्माधिगमः कर्तव्यइति ॥ इति श्रीवेदान्तदीपे जिज्ञासाधिकरणम् ।। १ ।। १. जननसा. पा. २. राधान्त, पा, | ३. वेदान्ताना. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy