SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. प्रसक्तदोषः . पा. २. मुखेनास्यैवा. पा. पा. १.] जिज्ञासाधिकरणम्. ११९ क्यानि प्रधानादिप्रतिपादनपराणीति तन्मुखेन सर्वाक्षेपमाशङ्कय तान्यपि ब्रह्मपराणीत्युक्तम् । तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये निरूपितानि, स्पष्टलिङ्गकानि तृतीये । चतुर्थे तु प्रधानादिप्रतिपादनच्छायानुसारीणीति विशेषः । अतः प्रथमेऽध्याये सर्व वेदान्तवाक्यजातं सार्वशथसत्यसङ्कल्पत्वादियुक्तं ब्रह्मैव जगत्कारणतया प्रतिपादयतीति स्थापितम् । द्वितीयेऽध्याये तस्यार्थस्य दुर्धपणत्वप्रतिपादनेन द्रढिमोच्यते । तत्र प्रथमे पादे साङ्ख्यादिस्मृतिविरोधाध्यायविरोधाच्च प्रसक्तो दोषः परिहृतः । द्वितीये तु साङ्ख्यादिवेदबाह्यपक्षप्रतिक्षेप२ मुखेन तस्यैवादरणीयता स्थिरीकृता । तृतीयचतुर्थयोर्वेदान्तवाक्यानामन्योन्यविप्रतिषेधादिदोषगन्धाभावख्यापनाय वियदादीनां ब्रह्मकार्यताप्रकारो विशोध्यते । तत्र तृतीये पादे च चिदचित्प्रपञ्चस्य ब्रह्मकार्यत्वे सत्यप्यचिदंशस्य स्वरूपान्यथाभावेन कार्यत्वम् ; चिदंशस्य स्वभावान्यथाभावेन ज्ञानसङ्कोचविकासरूपेण कार्यतोदिता । चतुर्थे तु जीवोपकरणानामिन्द्रियादीनामुत्पत्तिप्रकार इति प्रथमेनाध्यायद्वयेन मुमुक्षुभिरुपास्यं निरस्तनिखिलदोषगन्धम् अनवधिकातिशयास कल्याणगुणगणं निखिलजगदेककारणं ब्रह्मेति प्रतिपादितम् । उत्तरेण द्वयेन ब्रह्मोपासनप्रकारस्तत्फलभूतमोक्षस्वरूपञ्च चिन्त्यते । तत्र तृतीयस्य प्रथमे पादे ब्रह्मोपासिसिषोत्पत्तये जीवस्य संसरतो दोषाः कीर्तिताः। द्वितीये च उपासिसिषोत्पत्तय एव ब्रह्मणो निरस्तनिखिलदोषताकल्याणगुणाकरतारूपोभयलिङ्गता प्रतिपाद्यते । तृतीये तु ब्रह्मोपासनैकत्व ४नानात्वविचारपूर्वकमुपासनेषूपसंहार्यानुपसंहार्यगुणविशेषाः प्रपश्चिताः । चतुर्थे तूपासनस्य वर्णाश्रमधर्मेतिकर्तव्यताकत्वमुक्तम् । चतुर्थेऽध्याये ब्रह्मोपासनफलचिन्ता क्रियते । तत्र प्रथमे पादे ब्रह्मोपासनफलं वक्तुम् उपासनस्वरूपपूर्वकोपासनानुष्ठानप्रकारो विद्यामाहात्म्यञ्चोच्यते । द्वितीये तु ब्रह्मोपासीनानां ब्रह्मप्राप्तिगत्युपक्रमप्रकारश्चिन्तितः । तृतीये तु अर्चिरादिगतिस्वरूपम्, अर्चिरादिनैव ब्रह्मप्राप्तिरिति च प्रतिपाद्यते । चतुर्थे तु मुक्तस्य ब्रह्मानुभवप्रकारश्चिन्त्यते। अतो मुमुक्षुभिः शातव्यं निरस्तनिखिलदोषगन्धम् अनवधिकातिशयासङ्घधेयकल्याणगुणगणाकरं निखिलजगदेककारणं परं ब्रह्म, तज्ज्ञानञ्च मोक्षसाधनमसकृदावृत्तस्मृतिसन्तानरूपमुपासनात्मकम् । उपासनफलं च अर्चिरादिना परं ब्रह्मोपसम्पद्य स्वस्वरूप Acharya Shri Kailassagarsuri Gyanmandir ३. ४. नानात्वपूर्वक. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy