________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८ वेदान्तदीपे
[अ. १. श्रुतेर्नित्यत्वाच ताभ्यः" इत्यात्मन उत्पत्त्यभावश्चोक्तो नित्यत्वं च ; स्वाभ्युपगमविरोधश्चाआ मोक्षाजीवभेदस्यानादित्वं सर्वैरेव हि वेदान्तिभिरभ्युपगम्यते। अतश्श्रुतिविरोधात्सूत्रविरोधात्स्वाभ्युपगमविरोधाच्च सृष्टेः प्रागेकत्वावधारणं नामरूपविभागाभावाभिप्रायम् । नामरूपविभागानहसूक्ष्मचिदचिद्वस्तुशक्तिभेदसहं चेति सर्वैरभ्युपगम्यते । इयांस्तु विशेषः-अविद्यापरिकल्पनेऽप्युपाधिपरिकल्पनेऽपि ब्रह्मव्यतिरिक्तस्याविद्यासम्बन्धिनश्चोपाधिसम्बन्धिनश्चेतनस्याभावादविद्योपाधिसम्बन्धौ,तत्कृताश्च दोषा ब्रह्मण एव भवेयुः इति ॥
सन्मात्रब्रह्मवादेऽपि प्राक्सृष्टेस्सन्मानं ब्रह्मैकमेव सृष्ट्युत्तरकालं भोक्तृ. भोग्यनियन्तृरूपेण त्रिधा भूतश्चेत् , घटशरावमणिकवजीवेश्वरयोरुत्पत्तिमत्त्वमनित्यत्वञ्च स्यात् । अथैकत्वापत्तिवेलायामपि भोक्तृभोग्यनियन्तृशक्तित्रयमवस्थितमितिचेत्, किमिदं शक्तित्रयशब्दवाच्यमिति विवेचनीयम् । यदि सन्माअस्यैकस्यैव भोक्तृभोग्यनियन्तृरूपेण परिणामसामर्थ्य शक्तित्रयशब्दवाच्यम्; एवं तर्हि मृत्पिण्डस्य घटशरावादिपरिणामसमर्थस्य तदुत्पादकत्वमिव ब्रह्मण ईश्वरादीनामुत्पादकत्वमिति तेषामनित्यत्वमेवाअथेश्वरादीनां सूक्ष्मरूपेणावस्थितिरेव शक्तिरित्युच्येत तर्हि तदतिरिक्तस्य सन्मात्रस्य ब्रह्मणः, प्रमाणा भावात्तदभ्युपगमे च तदुत्पाद्यतयेश्वरादीनामनित्यत्वप्रसङ्गाच्च त्रयाणां नामरूपविभागानहसूक्ष्मदशापत्तिरेव प्राक्सृष्टेरेकत्वावधारणावसेयेति वक्तव्यम् । १न तदा तेषां ब्रह्मात्मकत्वादेकत्वावधारणं विरुद्ध्येत। अतस्सर्वावस्थावस्थितस्य चिदचिद्वस्तुनः ब्रह्मशरित्वश्रुतेस्सर्वदा सर्वशब्दैर्ब्रह्मैव तत्तच्छरीरकतया तत्तद्विशिष्टमेवाभिरधीयत इति स्थूलचिदचिद्वस्तुविशिष्टं ब्रह्मैव कार्यभूतं जगत्, नामरूपविभागानहसूक्ष्मचिदचिद्वस्तुविशिष्टं ब्रह्म कारणमिति तदेव मृत्पिण्डस्थानीयं ३"सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्"इत्युच्यते । तदेव विभक्तनामरूपचिदचिद्वस्तुविशिष्टं ब्रह्म कार्यमिति सर्व समञ्जसम् । श्रुतिन्यायविरोधस्तु तेषां भाष्ये प्रपश्चितइति नेह प्रतन्यते ॥
भाष्योदितोऽधिकरणार्थस्ससूत्रविवरणस्सुखग्रहणाय सङ्क्षपणोपन्यस्य ते।तत्र प्रथमे पादे प्रधानपुरुषावेव जगत्कारणतया वेदान्ताः प्रतिपादयन्तीत्याशङ्कय सर्वज्ञं सत्यसङ्कल्पं निरवद्यं समस्तकल्याणगुणाकरं ब्रह्मैव जगत्कारणतया प्रतिपादयन्तीत्युक्तम् । द्वितीयतृतीय४चतुर्थपादेषु कानिचिद्वेदान्तवा१. तदा तेषां बहुत्वादेकत्वाव. पा. ३. छा. ६-२-१. २. धेयमिति. पा.
। ४. चतुर्थेषु पादेषु. पा.
For Private And Personal Use Only