SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. छा. ६-१-४. २. छा. ६-२-१. ३. वाच्यतयैकताप. पा. ४. छा. ६-२-३ ५. छा. ६.८-७. ६. वैदिकैरभ्यु. पा. पा. १.] जिज्ञासाधिकरणम्. ११७ शाय १" यथा सोम्यैकेन मृत्पिण्डेन" इत्येकमृत्पिण्डारब्धघटशरावादीनां तन्मृत्पिण्डादनन्यद्रव्यतया तज्ज्ञानेन तेषां ज्ञाततेव, ब्रह्मज्ञानेन तदारब्धस्य कृत्स्नस्य चिदचिदात्मकस्य जगतस्तस्मादनतिरिक्तवस्तुतया ज्ञातता सम्भवतीत्युपपाद्य, २" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्"इतीदंशब्दवाच्यस्य चिदचिदात्मकप्रपञ्चस्य सृष्टेः प्रानि खिलभेदप्रहाणेन सच्छब्द ३वाच्येनैकतापत्ति घटशरावाद्युत्पत्तेः प्रागुत्पादकमृत्पिण्डैकतापत्तिवदभिधाय, ४' तदैक्षत बहु स्याम्' इति तदेव सच्छब्दवाच्यं ब्रह्म चिदचिदात्मकप्रपञ्चरूपेणाऽत्मनो बहुभवनमेकमृत्पिण्डस्य घटशरावादिरूपेण बहुभव नवत्सङ्कल्प्यात्मानमेव तेजः प्रभृतिजगदाकारेणासृजतेति चाभिधाय ५ "ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि' इत्यभिधानाद्ब्रह्मकमेवाविद्याकृतेन, पारमार्थिकेन वा उपाधिना सम्बद्धं देवादिरूपेण बहुभूतमिति ६वेदविद्भिरभ्युपगन्तव्यम् इति । तदयुक्तम्, ७"ज्ञाशौ द्वावजावीशनीशौ" ८" नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विद्धाति कामान्" इत्यादिश्रुतिभिः जीवानामजत्वनित्यत्ववहुत्ववचनात् । यदि घटशरावादेरुत्पत्तेः प्रागेकीभूतस्य मृद्दव्यस्योत्पत्त्युत्तरकालभाविबहुत्ववत् सृष्टेः प्रागेकीभूतस्यैव ब्रह्मणस्सृष्टयुत्तरकालीनं नानाविधजीवरूपेण बहुत्वमुच्येत; तदा जीवानामजत्वनित्यत्वबहुत्वादि विरुध्येत । सूत्रविरोधश्च ९ " इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः” इति ब्रह्मैव देवमनुष्यादिजीवरूपेण बहुभूतश्चेदात्मनो हिताकरणादिदोषप्रसक्तिरित्युक्त्वा १० " अधिकन्तु भेदनिर्देशात् " इति जी - वाद्ब्रह्मणोऽर्थान्तरत्वमुक्तम् । तथा च ११" वैषम्यनैर्घृण्ये न सापेक्षत्वात् " इति देवादिविषम सृष्टिप्रयुक्तपक्षपातंनर्घृण्ये जीवानां पूर्वपूर्वकर्मापेक्षत्वाद्विषम सृष्टेरिति परिहृते । तथा — १२ "न कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च " इति 'सदेव सोम्योदमग्र आसीदेकमेवाद्वितीयम्” इति सृष्टेः प्रागविभागवचनात् सृष्टेः प्राग्जीवानामभावात्तत्कर्म न सम्भवतीति परिचोद्य जीवानां तत्कर्मप्रवाहाणां चानादित्वादिति परिहृतम् । १३" नात्मा "" ७. श्वे. १ ९. Acharya Shri Kailassagarsuri Gyanmandir ८. वे. ६-१३; कट, २, ५, १३. ९. शारी. २.१-२१. १०. शारी. २-१-२२. ११. शारी २-१-३४. १२. शारी, २-१-३५. १३. शारी. २-३-१८. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy