SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०५ पा १.] जिज्ञासाधिकरणम्. ह्यविरुद्धम् । यथा-आग्नेयादीन् षड्यागानुत्पत्तिवाक्यैः पृथगुत्पन्नान् १समुदायानुवादिवाक्यद्वयेन समुदायद्वयत्वमापन्नान् २“दर्शपूर्णमासाभ्याम्"इत्यधिकारवाक्यं कामिनः कर्तव्यतया विदधाति तथा चिदचिदीश्वरान्विविक्तस्वरूपखभावान् ३"क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः" ४"पति विश्वस्याऽत्मेश्वरम्" ५"आत्मा नारायणः परः" इत्यादिवाक्यैः पृथक् प्रतिपाद्य ६“यस्य पृथिवी शरीरम्" ७"यस्याऽत्मा शरीरम्" "यस्याव्यक्तं शरीरम् । यस्याक्षरं शरीरम् । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादिभिर्वाक्यैश्चिदचितोस्सर्वावस्थावस्थितयोः परमात्मशरीरतां परमात्मनस्तदात्मतां च प्रतिपाद्य शरीरभूतपरमात्माभिधायिभिस्सद्ब्रह्मात्मादिशब्दैः कारणावस्था कार्यावस्थश्च परमात्मैक एवेति पृथक्प्रतिपन्नं वस्तुत्रितयं ९ “सदेव सोम्येदमग्र आसीत्"१०"ऐतदात्म्यमिदं सर्वम्"११"सर्व खल्विदं ब्रह्म" इत्यादिवाक्यं प्रतिपादयति। चिदचिद्वस्तुशरीरिणः परमात्मनः परमात्मशब्देनाभिधाने हि नास्ति विरोधः । यथा मनुष्यपिण्डशरीरकस्याऽत्मविशेषस्य अयमात्मा सुखी' इत्यात्मशब्देनाभिधान इत्यलमतिविस्तरेण॥ यत्पुनरिदमुक्तम्-ब्रह्मात्मैकत्वविज्ञानेनैवाविद्यानिवृत्तियुक्ताइति, तदयुक्तम् , बन्धस्य पारमार्थिकत्वेन ज्ञाननिवर्त्यत्वाभावात् पुण्यापुण्यरूपकर्मनिमित्तदेवादिशरीरप्रवेशतत्प्रयुक्तसुखदुःखानुभवरूपस्य बन्धस्य मिथ्यात्वं कथमिव शक्यते वक्तुम् । एवंरूपबन्धनिवृत्तिर्भक्तिरूपापनोपासनप्रीतपरमपुरुषप्रसादलभ्येति पूर्वमेवोक्तम् । भवदभिमत१. समुदायानुवादवाक्य. पा. ७ यू. ५.अ. ८. ब्रा-विज्ञानस्थाने माध्य२. कात्यायनश्रौतसू . ४-२-४७. ८, सुबाल, ७. ख, [न्दिनपाठः. २२. ३. श्वे. १. अ. १०. ९, छा. ६. प्र-२-ख-१. ४, ५. ते. नारायणे. ११. अनु.३. ४. वा. १०.छा, ६.प्र. ८. ख.७. ६. बु. ५. अ. ७. बा. ३. ११. छा. ३. प्र-१४-ख. १. 14 For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy