SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०६ शारीरकमीमांसाभाष्ये [अ. १. स्यैक्यज्ञानस्य यथावस्थितवस्तुविपरीतविषयस्य मिथ्यारूपत्वेन बन्धविवृद्धिरेव फलं भवति - १ " मिथ्यैतदन्यद्दव्यं हि नैति तद्दव्यतां यतः " इतिशास्त्रात् । २" उत्तमः पुरुषस्त्वन्यः " ३" पृथगात्मानं प्रेरितारं च मत्वा " इति जीवात्मविसजातीयस्य तदन्तर्यामिणो ब्रह्मणो ज्ञानं परमपुरुषार्थलक्षणमोक्षसाधनमित्युपदेशाच्च ॥ Acharya Shri Kailassagarsuri Gyanmandir अपिच भवदभिमतस्यापि निवर्तकज्ञानस्य मिथ्यारूपत्वात्तस्य निवर्तकान्तरं मृग्यम् । निवर्तकज्ञानमिदं स्वविरोधि सर्व भेदजातं ५ - वर्त्य क्षणिकत्वात्स्वयमेव धनश्यतीतिचेन्न ; तत्स्वरूपतदुत्पत्तिविनाशानां काल्पनिकत्वेन विनाश तत्कल्पनाकल्पकरूपाविद्याया निवर्तकान्तरमन्वेषणीयम् । तद्विनाशो ब्रह्मस्वरूपमेवेति चेत्; तथा सति निवर्तकज्ञानोत्पत्तिरेव न स्यात्, तद्विनाशे तिष्ठति तदुत्पत्यसम्भवात् ॥ अपिच चिन्मातब्रह्मव्यतिरिक्तकृत्स्त्रनिषेधविषयज्ञानस्य कोऽयं ज्ञाता ? अध्यासरूप इति चेत्, न तस्य निषेध्यतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः । ब्रह्म स्वरूपमिति चेत् ; ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम् ; उताध्यस्तम् । अध्यस्तं चेत्, अयमध्यासस्तन्मूलाविद्यान्तरं च निवर्तकज्ञानाविषयतया तिष्ठत्येव । निवर्तकज्ञानान्तराभ्युपगमे तस्यापि त्रिरूपत्वात् ज्ञालपेक्षयाऽनवस्था स्यात् । ब्रह्मखरूपस्यैव ज्ञातृत्वेऽस्मदीय एव पक्षः परिगृहीतस्स्यात् । निवर्तकज्ञानस्वरूपं स्वस्य ज्ञाता च ब्रह्मव्यतिरिक्तत्वेन स्वनिवर्त्यान्तर्गतमिति वचनं 'भूतल - व्यतिरिक्तं कृत्स्नं देवदत्तेन च्छिन्नम्' इत्यस्यामेवच्छेदनक्रियायामस्य च्छेत्तुरस्याश्छेदनक्रियायाश्च च्छेद्यानुप्रवेशवचनवदुपहास्यम् । अध्य ४. भवदभिमतस्य निवर्तकज्ञानस्यापि - पा. १. वि. पु. २- अं. १४. अ. २७ - श्लो. २.गी. १५- अ. १७ - लो. ३. श्वे. १-अ ६. ६. विनश्यती. पा. ५. विनिवर्त्य. पा. ७. स्वरूपेमेवेति. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy