SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ शारीरकमीमांसाभाष्ये [... १“सोऽकामयत बहु स्याम्" २ "तदैक्षत बहु स्याम्"३"तन्नामरूपाभ्यां व्याक्रियत" इति ब्रह्मैव स्वसङ्कल्पाद्विचित्रस्थिरत्रसरूपतया नानाप्रकारमवस्थितमिति तत्पत्यनीकाब्रह्मात्मकवस्तुनानात्वमतत्त्वमिति तत्पतिषिध्यते---४" मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति" ५"नेह नानाऽस्ति किञ्चन" ६" यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत्तत्केन कं विजानीयात्" इत्यादिना। न पुनः “बहु स्याम् प्रजायेय" इत्यादिश्रुतिसिद्धं खसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वमपि निषिध्यते । “यत्र त्वस्य सर्वमात्मैवाभूत" ७ इत्यादिनिषेधवाक्यादौ च तत्स्थापितम् "सर्व तं परादाद्योऽन्यत्राऽत्मनस्सर्व वेद" ९ "तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः" इत्यादिना ॥ एवं चिदचिदीश्वराणां स्वभावभेदं स्वरूपभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोरनन्यत्वं च वदन्तीनां सर्वासां श्रुतीनामविरोधः, चिदचितोः परमात्मनश्च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानहसूक्ष्मदशापत्ति कार्यदशायां च तदर्हस्थूलदशापत्ति वदन्तीभिश्श्रुतिभिरेव ज्ञायत इति ब्रह्माज्ञानवादस्यौपाधिकब्रह्मभेदवादस्यान्यस्याप्यपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथश्चिदप्यवकाशो दृश्यते । चिदचिदीश्वराणां पृथक्स्वभावतया तत्तच्छ्रुतिसिद्धानां शरीरात्मभावेन प्रकारपकारितया श्रुतिभिरेव प्रतिपन्नानां श्रुत्यन्तरेण कार्यकारणभावप्रतिपादनं कार्यकारणयोरैक्यप्रतिपादनं च १.ते. आ. ६. अनु. २. २. छा. ६. प्र. २. ख. ३. ३. वृ. ३. अ. ४. ब्रा. ७. ४. ५. कठ. ४. वल्ली. १०.११. ६. पृ. ४. अ. ४. ब्रा. १४ ७. इतिनि. पा. ८. बृ. ४. अ. ४. ब्रा. ६. ९. सुबाल.२.ख.१.४-४-१०,६-५-११. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy