SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जिज्ञासाधिकरणम्. पा. १.] ९५ अधिष्ठानं तु प्राक्तिरोहितमतिरोहितस्वरूपं तत्पदेनोपस्थाप्यत इति चेन्न, प्रागधिष्ठानाप्रकाशे तदाश्रयभ्रमबाधयोरसंभवात् । भ्रमाश्रयमधिष्ठान - मतिरोहितमिति चेत् ; तदेवाधिष्ठानस्वरूपं भ्रमविरोधीति तत्प्रकाशे सुतरां न तदाश्रयभ्रमबाधौ । अतोऽधिष्ठानातिरेकि पारमार्थिकधर्मतत्तिरोधानानभ्युपगमे भ्रान्तिवाधौ दुरुपपादौ । अधिष्ठाने हि पुरुषमात्राकारे प्रतीयमाने तदतिरेकिणि पारमार्थिके राजत्वे तिरोहिते सत्येव व्याधत्वभ्रमः । राजत्वोपदेशेन च तन्निवृत्तिर्भवति ; नाधिष्ठानमात्रोपदेशेन ; तस्य प्रकाशमानत्वेनानुपदेश्यत्वात् ; भ्रमानुपमर्दित्वाच्च ॥ 1 जीवशरीरक जगत्कारणब्रह्मपरत्वे मुख्यवृत्तं पदद्वयम् । प्रकारद्व यविशिष्टकवस्तुप्रतिपादनेन सामानाधिकरण्यं च सिद्धम् । निरस्त - निखिलदोषस्य समस्त कल्याणगुणात्मकस्य ब्रह्मणो जीवान्तर्यामित्वमप्यैश्वर्यमपरं प्रतिपादितं भवति । उपक्रमानुकूलता च । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिश्च सूक्ष्मचिदचिद्वस्तुशरीरस्यैव ब्रह्मणस्स्थूलचिदचिद्वस्तुशरीरत्वेन कार्यत्वात् २" तमीश्वराणां परमं महेश्वरम्" ३" पराऽस्य शक्तिर्विविधैव श्रूयते " ४" अपहतपाप्मा. · सत्यकामस्सत्यसङ्कल्पः इत्यादिश्रुत्यन्तरविरोधश्च ॥ ; “ तत्त्वमसि " इत्यत्रोद्देश्योपादेयविभागः कथमिति चेत् ; नात्र किञ्चदुद्दिश्य किमपि विधीयते ; ५" ऐतदात्म्यमिदं सर्वम्" इत्यनेनैव प्राप्तत्वात् । अप्राप्ते हि शास्त्रमर्थवत् । इदं सर्वमिति सजीवं जगन्निर्दिश्य ऐतदात्म्यमिति तस्यैष आत्मेति तत्र प्रतिपादितम् । तत्र च हेतुरुक्त:६" सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः" इति; ७" सर्व खल्विदं ब्रह्म तज्जलानितिशान्तः " इतिवत् ॥ १. इतिचेन्न अधिष्ठानाप्रकाशे. पा. २. ३. वे ६. अ. ७. ८. वा. ४. छा. ८, प्र. १. ख. ६. वा. Acharya Shri Kailassagarsuri Gyanmandir ५. ६. छा. ६. प्र. ८. ख. ७. ४. वा. ७. छा. ३, प्र. १४. ख. १. वा. For Private And Personal Use Only ""
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy