________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाष्ये
[अ. १. अचिद्वस्तुनश्च तत्कर्मनिमित्तपरिणामित्वेनाप्राधान्यमिति प्रतीयते ॥
यदुक्तं-निर्विशेषब्रह्मविज्ञानादेवाविद्यानिवृत्तिं वदन्ति श्रुतयःइति । तदसत्, १" वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्ण तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय" २" सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि" ३" न तस्येशे कश्चन तस्य नाम महद्यशः" ४" य एनं विदुरमृतास्ते भवन्ति " इत्याद्यनेकवाक्यविरोधात्। ब्रह्मणस्सविशेषत्वादेव सर्वाण्यपि वाक्यानि सविशेषज्ञानादेव मोक्ष वदन्ति।शोधकवाक्यान्यपि सविशेषमेव ब्रह्म प्रतिपादयन्तीत्युक्तम्।।
___तत्त्वमस्यादिवाक्येषु सामानाधिकरण्यं न निर्विशेषवस्त्वैक्यपरम्, तत्वंपदयोस्सविशेषब्रह्माभिधायित्वात् । तत्पदं हि सर्वज्ञं सत्यसङ्कल्प जगत्कारणं ब्रह्म ५परामृशति-तदैवत बहु स्याम्" इत्यादिषु तस्यैव प्रकृतत्वात् । तत्समानाधिकरणं त्वंपदं च अचिद्विशिष्टजीवशरीरकं ब्रह्म प्रतिपादयति,प्रकारद्वयावस्थितैकवस्तुपरत्वात्सामानाधिकरण्यस्य प्रकारद्वयपरित्यागे प्रवृत्तिनिमित्तभेदासंभवेन सामानाधिकरण्यमेव परित्यक्तं स्यात् ; द्वयोः पदयोर्लक्षणा च । 'सोऽयं देवदत्तः' इत्यत्रापि न लक्षणा, भूतवर्तमानकालसंवन्धितयैक्यप्रतीत्यविरोधात् । देशभेदविरोधश्च कालभेदेन परिहतः । “ तदैक्षत बहु स्याम्" इत्युपक्रमविरोधश्च । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं च न घटते । ज्ञानस्वरूपस्य निरस्तनिखिलदोषस्य सर्वज्ञस्य समस्तकल्याणगुणात्मकस्याज्ञानं तत्कार्यानन्तापुरुषार्थाश्रयत्वं च भवति । बाधार्थत्वे च सामानाधिकरण्यस्य त्वंतत्पदयोरधिष्ठानलक्षणा निवृत्तिलक्षणा चेति लक्षणादयस्त एव दोषाः ॥
इयोस्तु विशेषः नेदं रजतमितिवदप्रतिपन्नस्यैव बाधस्यागत्या परिकल्पनम् ; तत्पदेनाधिष्ठानातिरेकिधर्मानुपस्थापनेन बाधानुपपत्तिश्च।
१. तैत्तिरीयारण्यके. ब्रह्ममेघे. पुरुषसूक्तम्. नारायणानुवाके. १. अनु. ८. ९. १०. ३. १२. १३. महानाराणोपनिषदिच. ४. अ. ५. प्रतिपादयति. पा. २. ३. ४. तैत्तिरीयारण्यके. ६, प्रश्ने.
For Private And Personal Use Only