________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
जिज्ञासाधिकरणम् .
इत्यत्रापि विनाशित्वमेव ह्युपपादितम् ; न निष्प्रमाणकत्वं, ज्ञानबाध्यत्वं वा; एकेनाकारेणैकस्मिन् कालेऽनुभूतस्य कालान्तरे परिणामविशेषेणान्यथोपलब्ध्या नास्तित्वोपपादनात् । तुच्छत्वं हि प्रमाणसंबन्धानईत्वम् । बाधोऽपि यद्देशकालादिसंबन्धितया यदस्तीत्युपलब्धम् ; तस्य तद्देशकालादिसम्बन्धितया नास्तीत्युपलब्धिः न तु कालान्तरे अनुभूतस्य कालान्तरे परिणामादिना नास्तीत्युपलब्धिः, कालभेदेन विरोधाभावात् । अतो न मिथ्यात्वम् ॥
एतदुक्तं भवति - ज्ञानस्वरूपमात्मवस्तु आदिमध्यपर्यन्तहीनं सततैकस्वरूपमिति स्वत एव सदाऽस्तिशब्दवाच्यम् । अचेतनं तु क्षेत्रज्ञभोग्यभूतं तत्कर्मानुगुणपरिणामि विनाशीति सर्वदा नास्त्यर्थगर्भमिति नास्त्यसत्यशब्दाभिधेयम् इति ॥ यथोक्तम्
""
१" यत्तु कालान्तरेणापि नान्यसंज्ञामुपति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम् ॥ २" अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते ।
तत्तु ३ नास्ति न संदेहो नाशिद्रव्योपपादितम् ।। " इति ।। देशकालकर्मविशेषापेक्षया अस्तित्वनास्तित्वयोगिनि वस्तुनि केवलास्तिबुद्धिबोध्यत्वमपरमार्थ इत्युक्तम् । आत्मन एव केवलास्तिबुद्धिबोध्यत्वमिति स परमार्थ इत्युक्तम् । श्रोतुश्च मैत्रेयस्य
४" विष्ण्वाधारं यथा चैतत्त्रैलोक्यं समवस्थितम् । परमार्थश्च मे प्रोक्तो यथाज्ञानं प्रधानतः ॥ "
Acharya Shri Kailassagarsuri Gyanmandir
" इत्यनुभाषणाच्च, " ज्योतींषि विष्णुः " इत्यादिसामानाधिकरयस्यात्मशरीरभाव एव निबन्धनम् । चिदचिद्वस्तुनो चास्तिनास्तिशदप्रयोगनिबन्धनं ज्ञानस्याकर्मनिमित्तस्वाभाविकरूपत्वेन प्राधान्यम् ;
१. वि. पु. अं. २. अ. १३. लो. १००.
२. वि. पु. अं. २, अ. १४. लो. २४.
३. नाशि. पा.
२. श्लो. २.
For Private And Personal Use Only
४. वि. पु. अं २. अ.
५. इत्याद्यनु पा.