________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१. वि. पु. २- १२-४५.
२. वि पु. २ १२-४७.
९२
शारीरकमीमांसाभाष्ये
[अ. १.
संहितइति तद्भेदानुसंधानं नात्मस्वरूपप्रयुक्तमित्याह – 'विज्ञानमेकम् ' इति ।
आत्मस्वरूपं तु कर्मरहितम्, तत एव मलरूपप्रकृतिस्पर्शरहितम् । ततश्च तत्प्रयुक्तशोकमोह लोभाद्यशेषहेयगुणासङ्गि, उपचयापचयानर्हतयैकम्, तत एव सदैकरूपम् । तच्च वासुदेवशरीरमिति तदात्मकम्, अतदात्मकस्य कस्यचिदप्यभावादित्याह - "ज्ञानं विशुद्धम् " इति । चिदंशस्सदैकरूपतया सर्वदाऽस्तिशब्दवाच्यः । अचिदंशस्तु क्षणपरिणामित्वेन सर्वदा नाशगर्भइति सर्वदा नास्तिशब्दाभिधेयः । एवंरूपचिदचिदात्मकं जगद्वासुदेवशरीरं तदात्मकमिति जगद्याथात्म्यं सम्यगुक्तमित्याह - " सद्भाव एवम् " इति। अत्र 'सत्यम्, असत्यम्' इति “यदस्ति यन्नास्ति" इति प्रक्रान्तस्योपसंहारः । एतत् ज्ञानैकाकारतया समम् अशब्दगोचरस्वरूपभेदमेवाचिन्मिश्रं भुवनाश्रितं देवमनुष्यादिरूपेण सम्यग्व्यवहारार्हभेदं यद्वर्तते तत्र हेतु: कमैवेत्युक्तमित्याह- १ " एतत्तु यत्" इति। तदेव विवृणोति - २" यज्ञः पशुः " इति । जगद्याथात्म्यज्ञानप्रयोजनं मोक्षोपाययतनमित्याह- २" यच्चैतत्" इति।।
अत्र निर्विशेषे परे ब्रह्मणि तदाश्रये सदसदनिर्वचनीये चाज्ञाने, जगतस्तत्कल्पितत्वे वाऽनुगुणं किञ्चिदपि पदं न दृश्यते । अस्तिनास्तिशब्दाभिधेयं चिदचिदात्मकं कृत्स्नं जगत् परमस्य परेशस्य परस्य ब्रह्मणो विष्णोः कायत्वेन तदात्मकम् । ज्ञानैकाकारस्यात्मनो देवादिविविधाकारानुभवेऽचित्परिणामे च हेतुर्वस्तुयाथात्म्यज्ञानविरोधि क्षेत्रज्ञानां कर्मैवेति प्रतिपादनात् अस्तिनास्तिसत्यासत्यशब्दानां च सदसदनिर्वचनीयवस्त्वभिधानासामर्थ्याच्च नास्त्यसत्यशब्दावस्तिसत्यशब्धविरोधिनौ । अतश्च ताभ्यामसत्त्वं हि प्रतीयते ; नानिर्वचनीयत्वम् । अत्र चाचिद्वस्तुनि नास्त्यसत्यशब्दौ न तुच्छत्वमिथ्यात्वपरौ प्रयुक्तौः अपि तु विनाशित्वपरौ । “ वस्त्वस्ति किम्" "मही घटत्वम्"
Acharya Shri Kailassagarsuri Gyanmandir
३. वि.पु. २ १२.४६. ४. त्वे चानुगु. पा.
For Private And Personal Use Only