________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् . वृणोति"-यदा तु शुद्धं निजरूपि"इति।यदैतत् ज्ञानैकाकारमात्मवस्तु देवाद्याकारण स्वात्मनि वैविध्यानुसन्धानमूलसर्वकर्मक्षयानिर्दोष परिशुद्धं निजरूपि भवति,तदा देवाद्याकारेणैकीकृत्यात्मकल्पनामूलकर्मफलभूतास्तद्भोगार्था वस्तुषु वस्तुभेदा न भवन्ति। ये देवादिषु वस्तुष्वात्मतयाभिमतेषु भोग्यभूता देवमनुष्यशैलाब्धिधरादिवस्तुभेदाः ; ते तन्मूलभूतकर्मसु विनष्टेषु न भवन्तीत्यचिद्वस्तुनः कादाचित्कावस्थाविशेषयोगितया नास्तिशब्दाभिधेयत्वम् , इतरस्य सर्वदा निजसिद्धज्ञानेकाकारत्वेन अस्तिशब्दाभिधेयत्वमित्यर्थः । प्रतिक्षणमन्यथाभूततया कादाचित्कावस्थायोगिनोऽचिद्वस्तुनो नास्तिशब्दाभिधेयत्वमेवेत्याह- "वस्त्वस्ति किम्" इति। अस्तिशब्दाभिधेयो ह्यादिमध्यपर्यन्तहीनस्सततकरूपः पदार्थः, तस्य कदाचिदपि नास्तिबुद्धयनहत्वात् । अचिद्वस्तु किंचित् कचिदपि तथाभूतं न दृष्टचरम् । ततः किमित्यत्राह- १“यच्चान्यथात्वम्" इति । यद्वस्तु प्रतिक्षणमन्यथात्वं याति; तदुत्तरोत्तरावस्थाप्राप्तया पूर्वपूर्वावस्थां जहातीति तस्य पूर्वावस्थस्योत्तरावस्थायां न प्रतिसंधानमस्ति । अतस्सर्वदा तस्य नास्तिशब्दाभिधेयत्वमेव । तथा छुपलभ्यत इ. त्याह-“मही घटत्वम्" इति।स्वकर्मणा देवमनुष्यादिभावेन स्तिमितात्मनिश्चयैस्वभोग्यभूतमचिद्वस्तु प्रतिक्षणमन्यथाभूतमालक्ष्यते- अनुभूयत इत्यर्थः। एवं सति किमप्यचिद्वस्त्वस्तिशब्दार्हमादिमध्यपर्यन्तहीनं सततैकरूपमालक्षितमस्ति किम् ? न ह्यस्तीत्यभिप्रायः । यस्मादेवम् , तस्मात् ज्ञानस्वरूपात्मव्यतिरिक्तमचिद्वस्तु कदाचित्कचित् केवलास्तिशब्दवाच्यं न भवतीत्याह- "तस्मान्न विज्ञानमृते" इति। आत्मा तु सर्वत्र ज्ञानकाकारतया देवादिभेदप्रत्यनीकस्वरूपोऽपि देवादिशरीरप्रवेशहेतुभूतस्वकृतविविधकर्ममूलदेवादिभेदभिन्नात्मबुद्धिभिस्तेनतेन रूपेण बहुधाऽनु१ वि-पु. २-१२-४१.
For Private And Personal Use Only