________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शारीरकमीमांसाभाष्ये
[अ. १.
तथा श्रुत्यन्तराणि च ब्रह्मणस्तद्वयतिरिक्तस्य चिदचिद्वस्तुनथ शरीरात्मभावमेव तादात्म्यं वदन्ति - १" अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" २" यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त अत्माऽन्तर्याम्यमृतः " ३" य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः " ४" यः पृथिवीमन्तरे संचरन् ” इत्यारभ्य ५" यस्य मृत्युश्शरीरम् । यं मृत्युर्न वेद । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः " ६ “तत्सृष्ट्वा । तदेवानुप्राविशत्। तदनुप्रविश्य । सच्च त्यच्चाभवत्" इत्यादीनि । अत्रापि - ७" अto जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति ब्रह्मात्मकजी - वानुप्रवेशेनैव सर्वेषां वस्तुत्वं शब्दवाच्यत्वं च प्रतिपादितम् । " तदनुमविश्य | सच्च त्यच्चाभवत्" इत्यनेनैकार्थ्याज्जीवस्यापि ब्रह्मात्मकत्वं ब्रह्मानुप्रवेशादेवेत्यवगम्यते । अतश्रिदचिदात्मकस्य सर्वस्य वस्तुजातस्य ब्रह्मतादात्म्यमात्मशरीरभावादेवेत्यवगम्यते। तस्मात् ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य तच्छरीरत्वेनैव वस्तुत्वात्तस्य प्रतिपादकोऽपि शब्दस्तत्पर्यन्तमेव स्वार्थमभिदधाति । अतस्सर्वशब्दानां लोकव्युत्पत्त्यवगत तत्तत्पदार्थविशिष्टब्रह्माभिधायित्वं सिद्धमिति “ऐतदात्म्यमिदं सर्वम्” इति प्रतिज्ञातार्थस्य " तत्त्वमसि " इति सामानाधिकरण्येन विशेष उपसंहारः ॥
Acharya Shri Kailassagarsuri Gyanmandir
अतो निर्विशेषवस्त्वैक्यवादिनो भेदाभेदवादिनः केवलभेदवा दिनश्च वैयधिकरण्येन सामानाधिकरण्येन च ब्रह्मात्मभावोपदेशास्सर्वे परित्यक्तास्स्युः । एकस्मिन्वस्तुनि कस्य तादात्म्यमुपदिश्यते । तस्यैवेति
१. आरण्यके, ३. प्रश्न. ११. अनु. २०. पं.
२. बृ. ५. अ. ७. बा. ३.
३. बृ. ५. अ, ७. बा. २२. विज्ञानस्थान माध्यन्दिनपाठ:
४. ५. सुबालोपनिपदि. ७. ख. ६. तै. आन. ६. अनु. २.
७. छा. ६. प्र. ३.ख. २.
For Private And Personal Use Only