________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाज्ये
[भ. १. स्याचित्समष्टित्वं श्रुत्यन्तरादवगम्यते-१"अव्यक्तमक्षरे लीयते। अक्षरं तमसि लीयते" इति । सत्यम्-तमश्शब्देनाचित्समष्टिरूपायाः प्रकृतेससूक्ष्मावस्थोच्यते। तस्यास्तु २ "मायां तु प्रकृति विद्यात्"इति मायाशब्देनाभिधानादनिर्वचनीयत्वमिति चेत्, नैतदेवम्-मायाशब्दस्यानिर्वचनीयवाचित्वं न दृष्टमिति । मायाशब्दस्य मिथ्यापर्यायत्वेनानिर्वचनीयवाचित्वमिति चेत् । तदपि नास्ति ; न हि सर्वत्र मायाशब्दो मिथ्याविषयः; आसुरराक्षसास्त्रादिषु सत्येष्वेव मायाशब्दप्रयोगात् । यथो
३" तेन मायासहस्रं तच्छम्बरस्याऽशुगामिना । बालस्य रक्षता देह ध्मैकैकश्येन मूदितम् ॥” इति ॥
अतो मायाशब्दो विचित्रार्थसर्गकराभिधायी । प्रकृतेश्च मायाशब्दाभिधानं विचित्रार्थसर्गकरत्वादेव । ५" अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः" इति मायाशब्दवाच्यायाः प्रकृतेविचित्रार्थसर्गकरत्वं दर्शयति । परमपुरुषस्य च तद्वत्तामात्रेण मायित्वमुच्यते नाज्ञत्वेन। जीवस्यैव हि मायया निरोधश्श्रूयते । "तस्मिंश्चान्यो मायया सन्निरुद्धः" इति, ६“अनादिमायया सुप्तो यदा जीवः प्रबुध्यते" इति च। ७'इन्द्रो मायाभिः पुरुरूप ईयते" इत्यत्रापि विचित्राश्शक्तयोऽभिधीयन्ते । अत एव हि "भूरि त्वष्टेव राजति" इत्युच्यते । न हि मिथ्याभिभूतः कश्चिद्विराजते । ९"मम माया दुरत्यया" इत्यत्रापि गुणमयीति वचनात्सैव त्रिगुणात्मिका प्रकृतिरुच्यत इति न श्रुतिभिस्सदसदनिर्वचनीयाज्ञानप्रतिपादनम् ॥ १. सुबाल, २. ख,
। ६. माण्डूक्योपनिषत्. २-ख. २१. २. श्वेताश्वतर-४. अ. १०.
७. बृहदारण्यक. ४-अ. ६-प्रा. १९. ३. विष्णु. पु. १. अं. १९.अ. २० श्लो, ४. मेकैकञ्च निषू.पा.५.श्वेताश्वतर.४-अ.९. ९. गीता. ७-अ, १४-मो.
For Private And Personal Use Only