________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.१.]
जिज्ञासाधिकरणम् . देकश्चन्द्र इति भवति प्रत्ययः । दोषकृतं तु सामग्रीद्वित्वं तत्कृतं ग्रहणद्वित्वं तत्कृतं ग्राह्याकारद्वित्वं चेति निरवद्यम् ॥
__अतस्सर्व विज्ञानजातं यथार्थमिति सिद्धम् । ख्यात्यन्तराणां दूषणानि तैस्तैर्वादिभिरेव प्रपश्चितानीति न तत्र यत्नः क्रियते । अथवा किमनेन बहुनोपपादनप्रकारेण । प्रत्यक्षानुमानागमाख्यं प्रमाणजातमागमगम्यं च निरस्तनिखिलदोषगन्धमनवधिकातिशयासंख्येयकल्याणगुणगणं सर्वज्ञं सत्यसङ्कल्पं परं ब्रह्माभ्युपगच्छतां किं न सेत्स्यति। किं नोपपद्यते । भगवता हि परेण ब्रह्मणा क्षेत्रज्ञपुण्यपापानुगुणं तभोग्यत्वायाखिलं जगत्सृजता सुखदुःखोपेक्षाफलानुभवानुभाव्याः पदास्सिर्वसाधारणानुभवविषयाः, केचन तत्तत्पुरुषमात्रानुभवविषयास्तत्तत्कालावसानास्तथातथाऽनुभाव्यास्सृज्यन्ते । तत्र बाध्यबाधकभावस्सर्वानुभवविषयतया तद्रहिततया चोपपद्यत इति सर्व समञ्जसम् ।।
यत्पुनस्सदसदनिर्वचनीयमज्ञानं श्रुतिसिद्धमिति तदसत् १"अनृतेन हि प्रत्यूढाः" इत्यादिष्वनृतशब्दस्यानिर्वचचीयानभिधायित्वात्।ऋतेतरविषयो ह्यनृतशब्दः। ऋतमिति कर्मवाचि।२"ऋतं पिबन्तौ"इतिवचनात्। ऋतं-कर्मफलाभिसंधिरहितं परमपुरुषाराधनवेषं तत्प्राप्तिफलम् । ३अत्र तद्वयतिरिक्तं सांसारिकफलं कर्मानृतं ब्रह्मप्राप्तिविरोधि ४"एतं ब्रह्मलोकं न विन्दन्ति अनृतेन हि प्रत्यूढाः" इति वचनात् ॥
५"नासदासीनो सदासीत्"इत्यत्रापि सदसच्छब्दी चिदचियष्टिविषयौ । उत्पत्तिवेलायां सत्त्यच्छब्दाभिहितयोश्चिदचिद्वयष्टिभूतयोर्वस्तुनोरप्ययकाले अचित्समष्टिभूते तमश्शब्दाभिधेये वस्तुनि प्रलयप्रतिपादनपरत्वादस्य वाक्यस्य । नात्र कस्य चित्सदसदनिर्वचनीयतोच्यते; सदसतोः कालविशेषे असद्भावमात्रवचनात् । अत्र तमश्शब्दाभिहित१. छा. ८. प्र. ३. ख. २.
३. अतस्त.पा. ४. छा. ८. प्र. ३. ख. १. २. कठ. १-अ. ३-वल्ली. १-वा.
५.यजु. २-अष्टकं. ८-प्र. ९-अनु.
For Private And Personal Use Only