________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् . ___ नाप्यैक्योपदेशानुपपत्या; नहि १“तत्त्वमसि"इति जीवपरयोरैक्योपदेशे सति सर्वज्ञे सत्यसङ्कल्पे सकलजगत्सर्गस्थितिविनाशहेतुभूते तच्छब्दावगते प्रकृते ब्रह्मणि विरुद्धाज्ञानपरिकल्पनाहेतुभूता काचिदप्यनुपपत्तिदृश्यते । ऐक्योपदेशस्तु 'त्वं' शब्देनापि जीवशरीरकस्य ब्रह्मण एवाभिधानादुपपन्नतरः। २“अनेन जीवेनाऽत्मनाऽनुपविश्य नामरूपे व्याकरवाणि"इति सर्वस्य वस्तुनः परमात्मपर्यन्तस्यैव हि नामरूपभाक्त्वमुक्तम्। अतो न ब्रह्माज्ञानपरिकल्पनम् ॥
इतिहासपुराणयोरपि न ब्रह्माज्ञानवादः कचिदपि दृश्यते। ननु३ "ज्योतींषि विष्णुः" इति ब्रह्मैकमेव तत्त्वमिति प्रतिज्ञाय ४"ज्ञानस्वरूपो भगवान्यतोऽसौ"इति शैलाब्धिधरादिभेदभिन्नस्य जगतो ज्ञानकखरूपब्रह्माज्ञानविजृम्भितत्वमभिधाय ५“यदा तु शुद्धं निजरूपि" इति ज्ञानस्वरूपस्यैव ब्रह्मणः स्वस्वरूपावस्थितिवेलायां वस्तुभेदाभावदर्शनेनाज्ञानविजृम्भितत्वमेव स्थिरीकृत्य ६"वस्त्वस्ति किं" ७"मही घटत्वम्"इति श्लोकद्वयन जगदुपलब्धिप्रकारेणापि वस्तुभेदानामसत्यत्वमुपपाद्य "तस्मान विज्ञानमृते" इति प्रतिज्ञातं ब्रह्मव्यतिरिक्तस्यासत्यत्वमुपसंहृत्य ९"विज्ञानमेकम्" इति ज्ञानस्वरूपे ब्रह्मणि भेददर्शननिमित्ताज्ञानमूलं निजकर्मैवेति स्फुटीकृत्य १०" ज्ञानं विशुद्धम्" इति ज्ञानस्वरूपस्य ब्रह्मणः स्वरूपं विशोध्य ११“सद्भाव एवं भवतो मयोक्तः" इति ज्ञानस्वरूपस्य ब्रह्मण एव सत्यत्वं नान्यस्य ; अन्यस्य चासत्यत्वमेवः तस्य भुवनादेस्सत्यत्वं व्यावहारिकमिति तत्त्वं तवोपदिष्टमिति घुपदेशो दृश्यते ॥
नैतदेवम् । अत्र भुवनकोशस्य विस्तीर्ण स्वरूपमुक्त्वा, पूर्वमनुक्तं रूपान्तरं संक्षेपतः १२"श्रूयताम्" इत्यारभ्याभिधीयते । चिदचिन्मिश्रे १. छा, ६. प्र. ८. ख. ७. वा. ४०, ४१. ४२. ४३. ४४. ४५. २. छा. ६. प्र. ३. ख. २. वा. * "एषः' इतिपा. ' एषो भवतः' इतिपाटे ३. ४. ५. ६. ७. ८. ९. १०, ११. स्वार्षत्वात् सुपोलोपाभाव:. इति विष्णुचित्तीये. वि. पु. भ. २.अ. १२.लो. ३७. ३८.३९, १२, वि, पु. अं २, अ १२, लो. ३६.
12
For Private And Personal Use Only