________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥ १०४ ॥
www.kobatirth.org
aisa परमत्थो, बीयदिवसे गया समग्गकुसुममालाओ गहिऊण निद्दिट्ठट्ठाणे, दिट्ठो सो वणिओ जाणवत्ताधिरूढो, पणामियाई तीए कुसुमाई, पमारिओ तेण हन्थो, तीएवि समप्पणं ( णत्थं ) पलंबिया मुणालकोमला नियभुयलया, तेणवि हरिसभरनिव्भरंगेण सकुसुममाला चेव गहिऊण आरोविया सीलवई जाणवत्ते, उक्खित्ता उवरिगाए, एत्यंतरे बजावियाई मंगल तूराई पट्टियं पवहणं विमुक्का सियवडा वाहियाई आवल्लयाई चंडगंडीवविमुककंडं वेगेण गंतुं पवत्तं जाणवत्तं । इओ य सो नरविक्रमकुमारी अचंतं तदणागमणकाल विलंबुविग्गचित्तो इओ तओ सीलवई पलोहउं पवत्तो, तं अपेच्छमाणेण य तेण पुड्डा पाडवेसिया, अवलोइओ रायमग्गो, सम्मं निरिक्खिया तियचउक्कचचरा, अवलोइयाई सयलदेवउल भवणकाणणाई, निवेइया वत्ता पाडलयमालागारस्स, तेणावि सङ्घायरेण गवेसिया सीलवई सङ्घट्टाणेसु, कत्थविय पउत्तिपात्रमाणेण सिग्धमेव नियत्तिय द्वितीयदिवसे गता समग्रकुसुममाला गृहीत्वा निर्दिष्टस्थाने, दृष्टः स वणिक् यानपात्राधिरूढः, प्रणामितानि तया कुसुमानि प्रसारितस्तेन हस्तः, तयाऽपि समर्पणार्थं प्रलम्बिता मृणालकोमला निजभुजलता, तेनापि हर्षभरनिर्भराङ्गेन सकुसुममाला एवं गृहीत्वा आरोपिता शीलवती यानपात्रे, उत्क्षिप्ता उपरिकायाम्, अत्रान्तरे वादितानि मङ्गलतूर्याणि प्रवर्तितं प्रवहणं, विमुक्ता सितपटा, वाहितानि आवल्लकानि, चण्डगाण्डीवविमुक्तकाण्डमित्र वेगेन गन्तुं प्रवृत्तं यानपात्रम् । इतश्च सो नरविक्रमकुमारोऽत्यन्तं तदनागमनकालविलम्बोद्विग्नचित्त इतस्ततः शीलवतीं प्रलोकयितुं प्रवृत्तः, तामप्रेक्षमाणेन च तेन पृष्टाः प्रातिवेश्मिकाः, अवलोकितो राजमार्गः, सम्यग् निरीक्षितात्रिकचतुष्कचत्वराः, अवलोकितानि सकलदेव कुलभवनकाननानि, निवेदिता वार्ता पाटलकमालाकारस्य तेनापि सर्वोssदरेण गवेषिता शीलवती सर्वस्थानेषु, कुत्रापि च प्रवृत्तिमप्राप्नुवता शीघ्रमेव निवृत्य
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
शीलवतीहरणम् ॥
॥१०४॥