________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर- बालातपासहितम्
85
अर्थादमृतेन तृप्तासो भवतं तृप्यत । अग्निकुण्डलिनीमुत्थाप्य सूर्यकुण्डलिन्या संयोज्य ताभ्यां चन्द्रमण्डलशिवशक्तिसामरस्येन द्रावयित्वा तदुत्थामृतधाराभिर्द्विसप्ततिसहस्रनाडीमार्गानापूर्य तृप्ता भवतेत्यर्थः । तृप्तास इत्यत्र 'आज्जसे 'रित्यसुगागमः । तथा'यत्कुमारी मन्द्रयते यद्योषिद्यत्पतिव्रता । अरिष्टं यत्किञ्च क्रियते अग्निस्तदनुवेधति ॥
Acharya Shri Kailassagarsuri Gyanmandir
कुः पृथ्वीतत्त्वं म्रियते लीयते यस्मिंस्तत्कुलकुण्डं कुमारं तत्सम्बन्धिनी कुमारी कुलकुण्डलिनी । मन्द्रयते मन्द्रस्वरेण नदति । अतएव रोदनावस्थासाहित्यात्कुलकुण्डादुत्थापनस्योत्पत्तिरूपत्वाच्च सद्य उत्पन्ना कुमारीत्युच्यते । योषित् तरुणी तारुण्यलक्षणसूर्येणानाहतादुपरिभागे साहित्यात् । पतिव्रता पतिं ब्रह्मरन्ध्रस्थं कामेश्वरं व्रतयति भुङ्क्ते । 'पयोव्रतं ब्राह्मणस्येत्यादि प्रयोगात् । एवं कौमारतारुण्यसम्भोगैररिष्टं शुभं पीयूषवर्षणरूपमन्यदपि यत्किञ्चित्सा क्रियते करोति तत्सर्वमग्निः स्वाधिष्ठानगतोऽनुवेधति साधयति । अग्निज्वलनेनैव चन्द्रमण्डलद्रवादिति भावः । एतदुपबृंहणं सनत्कुमारतन्त्रे
'पृश्नयो नाम मुनयः श्रीविद्योपासका मिथः । सम्भूयोपदिशन्त्येतामुत्थापयत मा चिरम् ॥ कर्णिकायामधिष्ठाने वह्निमिच्छथ भारता: । सूर्येण सह विद्राव्य राज्ञः सोमस्य तृप्यते ॥''
इत्यादि पातिव्रत्ये भुजङ्गम्या अग्निरेव सहायवानित्यन्तम् । एवं 'लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितान्दधात्विति मन्त्रोऽपि लोकस्य ब्रह्मलोकस्य द्वारं साधनम् । अर्चिर्ज्योतिर्महःशब्दा अग्निसूर्यचन्द्रकलावाचकाः । चरणशब्दश्चरति यातायातं करोतीति व्युत्पत्त्या कुण्डलिनीपरः । सामान्ये नपुंसकम् । सुधितान् तृप्तान् । हकारस्य धकारादेशोऽर्चिःशब्दे सकारलोपश्च छान्दसः । कुण्डलिनी अग्न्यादिस्थानमागतात सुधावृष्टिं कुर्वत्यस्मांस्तृप्तान्करोत्वित्यर्थः । तदिदमुपबृंहितं शुक्रसंहितायाम्—
'पावकस्यार्चिषा भानोर्ज्योतिषा महसा विधोः । दोहमाना सुधाधारा द्विसप्ततिसहस्रधा ॥ गुप्ताचारा कुण्डलिनी तृप्तानस्मांस्तनोतु सा ।'
इति । अत्र गुप्तं यथा तथा चरतीति चरणपदस्यार्थः । एवं वसिष्ठादितन्त्रेष्वप्युपबृंहणानि द्रष्टव्यानि ॥ ९१ ॥
For Private and Personal Use Only