SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 ललितासहस्रनामस्तोत्रम् इत्यादि । योगवासिष्ठे चूडालोपाख्याने 'पुर्यष्टकापराख्यस्य मनसो जीवनात्मिकाम् । विद्धि कुण्डलिनीमन्तरामोदस्येव मजरीम् ॥ इति । नामनिर्वचनं च देवीपुराणे- 'यतः शृङ्गाटकाकारा कुण्डलिन्युच्यते तत' इति यद्वा वाग्भवबीजस्य कुण्डलिनीति संज्ञा । तद्रूपा बिसतन्तुः कमलनालं तदेव तन्तुस्तद्वत्तनीयसी अतिशयेन कृशाकृतिः । 'नीवारशूकवत्तन्वी पीता भास्वत्यणूपमे ति श्रुतेः । 'कुलामृतैकरसिका' इत्यारभ्येयत्पर्यन्ता मुक्ता प्रक्रिया सर्वापीति स्पष्टीकृता वामकेश्वरतन्त्रे भुजङ्गाकाररूपेण मूलाधारं समाश्रिता । शक्तिः कुण्डलिनीनाम बिसतन्तुनिभा शुभा ॥ मूलकन्दं फणाग्रेण दंष्ट्राकमलकन्दवत् । मुखेन पुच्छं संगृह्य ब्रह्मरन्धं समन्विता ॥ पद्यासनगता स्वस्था गुदमाकुञ्च्य साधकः । वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः ॥ वायवाघातवशादग्निः स्वाधिष्ठानगतो ज्वलन् । ज्वलनाघातपवनाघातैरुन्निद्रितोऽहिराट् ॥ ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः। रुद्रग्रन्थि विभिद्यैव कमलानि भिनत्ति षट् ॥ सहस्रकमले शक्तिः शिवेन सह मोदिते । सा चावस्था परा ज्ञेया सैव निर्वृतिकारणम् ॥ इति । अरुणोपनिषद्यपि श्रूयते 'उत्तिष्ठत मा स्वप्त अग्निमिच्छध्वं भारताः। राज्ञः सोमस्य तृप्तासः सूर्येण सयुजोषसः ॥" इति । इयं चोपनिषत्सर्वापि भगवतीपरैव । उपबृंहणदर्शनात् । 'अरुणोपनिषद्गीते ति श्यामलासहस्रनामसु पाठाच्च । पृश्निनामकानामुपासकानां परस्परमुक्तिरियं भारतीसरस्वतीविद्येति यावत् । तत्सम्बन्धिनो भारताः । हे श्रीविद्योपासकाः, उत्तिष्ठत उपास्तिक्रमे प्रवर्तध्वम् । मा स्वप्त प्रमत्ता मा भूत । अन्तर्भावितण्यर्थो वा कुण्डलिनीकर्मकाविमौ धातू योजनीयौ । अग्निं स्वाधिष्ठानगताग्नितेजोमयीं कुण्डलिनीमिच्छध्वं इच्छादण्डेनाहत्योत्थापयध्वम् । सूर्येण सयुजा विशुद्ध्यनाहतचक्रयोमध्यवर्तिसूर्यसहितेन तेनाग्निना । उषसो दग्धस्य द्रुतस्येति यावत् । सोमस्य उमया राजराजेश्वर्या सहितस्य राज्ञो राजराजेश्वरस्य सहस्रारीयचन्द्रमण्डलान्तर्गतस्य वा । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy