________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
83 विष्णुग्रन्थिपदेनोक्तं तैजसं सर्वसिद्धिदम । वाय्वाकाशद्वयीरूपं चक्रद्वितयमुत्तमम् ॥ रुद्रग्रन्थिपदेनोक्तं मङ्गलायतनं महत् ।' इत्यादि ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ९० ॥ सहनसंख्याका अरा दलानि यस्य तदम्बुजं कमलं ब्रह्मरन्ध्राधःस्थमारूढा । सुधायास्तत्कर्णिकाचन्द्रसम्बन्धिन्या आसारो धारासम्पातस्तमभिवर्षितुं शीलमस्याः 'अमृतस्य धारा बहुधा दोहमानं, चरणं नो लोके सुधितान्दधातु' इति श्रुतेः ॥ ९० ॥ .
तडिल्लतासमरुचिः षट्चकोपरि संस्थिता। ___ तडित्सौदामिन्येव लता वल्ली तथा समा रुचि: कान्तिर्यस्याः । 'विद्युल्लेखेव भास्वरे'ति श्रुतेः । 'षडवयवकानिा चक्राणीति मध्यमपदलोपी समासः । तेन 'द्विगो'रितिडीप्प्रत्ययो न भवति । तानि च मूलाधार-स्वाधिष्ठान-मणिपूरानाहत-विशुद्धाज्ञाचक्रनामकानि । तेषामुपरिः सहस्रारे सम्यक् स्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ९१ ॥ ___ महे उत्सवे तत्रत्यशिवशक्तिसमायोगरूपे आसक्तिस्तत्परता यस्याः । 'मह उद्धव उत्सव' इत्यमरः । वह्नितेजस्यासक्तिर्यस्या वा । 'मह उत्सवतेजसो रिति विश्वः । महती आ समन्तात्सक्तिः संयोगो यस्या वा । कुण्डले अस्याः स्त इति कुण्डलिनी आकृत्या भुजङ्गी वा । तत्स्वरूपं च तन्त्रराजे
'मूलाधारस्थवह्नयामतेजोमध्ये व्यवस्थिता। जीवशक्तिः कुण्डलाख्या प्राणाकाराथ तैजसी ॥ प्रसुप्तभुजगाकारा त्रिरावर्ता महाद्युतिः। मायाशीर्षा नदन्तीं तामुच्चरत्यनिशं खगे ॥ सुषुम्णामध्यदेशे सा यदा कर्णद्वयस्य तु। पिधाय न शृणोत्येनं ध्वनिं तस्य तदा मृतिः ॥"
ब्रह्मरन्ध्रे स्थितमधोमुखं श्वेतसहस्रदलं कमलं सहस्रारमुच्यते । सहस्राराख्येऽम्बुजे आरूढा। आरूढायै इति ॥ सुधाया आसार: धारासंपात: तम् अभितः सर्वतो वर्षतीति सा । वर्षिण्यै इति ॥ ९० ॥
तडिल्लतायाः विद्युल्लतायाः समा रुचिः कान्तिर्यस्याः सा | रुच्यै इति ॥ मूलाधाराद्याज्ञान्तानां षट्चक्राणामुपरि सहस्रारे सम्यक् स्थिता । स्थितायै [इति] ॥
महे उत्सवे आसक्तिः प्रीतिर्यस्याः सा । सक्त्यै इति ॥ कुण्डलिनीशक्तिरूपा । कुण्डलिन्यै इति ॥ विसं कमलनालं तस्य तन्तुरिव तनीयसी सूक्ष्मरूपा । तनीयस्यै इति ॥ ९१ ॥
For Private and Personal Use Only