________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयशतकं नाम तृतीया धूमिका कला
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ८९ ॥ नाभौ दशदले पद्ये सामयिकपूजायां मणिभी रत्नैः पूर्यते भूष्यते देवीति तच्चक्र मणिपूरपदवाच्यम् । तस्यान्तरधःस्थितं ग्रन्थिं भित्त्वोदिता प्रकटिता । तदुपरिस्थितं विष्णुग्रन्थिं विशिष्य भिनत्तीति तथा । विष्णोर्मणिपूरचक्रस्थितत्वेन तद्ग्रन्थ्योविष्णुग्रन्थिसंज्ञा । एवं ब्रह्मरुद्रग्रन्थिसंज्ञे अपि ज्ञेये ॥ ८९ ॥
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी। भ्रूमध्ये द्विदलपझे आज्ञापकस्य श्रीगुरोरवस्थानादाज्ञाचक्रसंज्ञा । तावत्पर्यन्तं मनोविग्रहाभ्यासे ईषद् ज्ञानोदयो भवतीति वा । आङीषदर्थकः । तदन्तराले तिष्ठति । रुद्रग्रन्थिद्वयं हृदयगतानाहतचक्रीयं विभिनत्तीति तथा । अनुष्ठाने एतद्वैपरीत्यमुन्नेयम् । पाठक्रमादर्थक्रमस्य बलीयस्त्वात् 'अर्थाच्चे ति पाञ्चमिकन्यायात् । यद्वा । श्रीविद्यायां चत्वारः खण्डा: आग्नेय-सौर-सौम्य-चन्द्रकलाख्याः । त एव वाग्भव-कामराज-शक्ति-तुर्याख्याश्च । तेषां चतुर्णां मध्ये त्रयो हल्लेखाख्या ग्रन्थयः । ताश्च तिनः क्रमेण रुद्रविष्णुब्रह्मसंज्ञकाः । तत्त्रयं भिनत्ति तदन्तः प्रविशति । तदभिधेयेत्यर्थः । वस्तुतस्तु दत्तात्रेयसंहितायां षडर्थप्रकरणोक्तकौलिकार्थपरमिदं नामषट्कम् । तदुक्तं तत्रैव
'मूलाधारादिकं चक्रषट्कं कुलमिति स्मृतम् । ग्रन्थित्रयं तत्र देविचत्रितयगर्भितम् ॥ पृथ्व्याप्यचक्रद्वितयं ब्रह्मग्रन्थिपदोदितम् । वह्निसूर्यमयं चक्रद्वयं तेजोमयं महत् ॥
नाभौ दशदलं कमलमस्ति । अन्तराराधनावसरे साधकै:(का) देव्यङ्ग मणिमयभूषणैरापूरयन्ति तत्रेति तन्मणिपूरम् । तदन्तः तन्मध्ये उदिता आविर्भूता । उदितायै इति ॥ विष्णुग्रन्थिं विभिनत्तीति सा । भेदिन्यै इति ॥ ८९॥
भ्रूमध्यस्थं द्विदलकमलमाज्ञापङ्कज(जं)[त] स्य गुरोः स्थानत्वादाज्ञाचक्रम् । तदन्तराले तिष्ठतीति सा । स्थायै इति ॥ रुद्रग्रन्थिं विभिनत्तीति मा । भेदिन्यै इति ॥
For Private and Personal Use Only