SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 81 सौभाग्यभास्कर-बालातपासहितम् मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी। मूलाधाराख्यं चतुर्दलं पद्मं तत्कर्णिकायां मध्ये बिन्दौ कुलकुण्डनामके मुखमाच्छाद्य कुण्डलिनी तत्र सर्वदैव सुप्ता तिष्ठति । अतएवैतदाधारत्वात्सुषुम्णामूलत्वाच्च मूलाधार इत्युच्यते । स एवैको मुख्यो निलयो वासस्थानं यस्याः । षट्चक्रेषु प्रतिचक्रमाद्यन्तयोर्कीद्वौ ग्रन्थी । तत्र ब्रह्मग्रन्थिद्वयं स्वाधिष्ठानीयं विशेषेण भिनत्तीति तथा ॥ इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । आद्येन शतकेनाभूद्विया तापिनी कला ॥ १०० ॥ इति श्रीमत्पदवाक्येत्यादिभास्कररायकृते ललितासहस्रनाम परिभाषाभाष्ये प्रथमशतकं नाम द्वितीया कला ॥२॥ मूलाधारः गुदोघे लिङ्गाधः विद्यमानं चतुर्दलं कमलं सुषुम्णाया मूले आधारभूतत्वात् मूलाधार इत्युच्यते । स एकः मुख्यो निलयो यस्याः सा | निलयायै इति ॥ षट्सु चक्रेषु आद्यन्तयोझै ग्रन्थी सुषुम्णामार्गनिरोधकौ । तत्रस्याधिष्ठानमणिपूरानाहताख्यानि त्रीणि चक्राणि ब्रह्मविष्णुरुद्राणां स्थानानि । तत्मीपे विद्यमानो ग्रन्थिरपि ब्रह्मग्रन्थीत्यादि तत्तन्नाम्नोच्यते । मूलाधारे प्रसुप्तसर्पा कुण्डलिनी योगिभिरुत्थापिता झटिति ग्रन्थी निर्भिद्य सुषुम्णामार्गेण ब्रह्मरन्धस्थचन्द्रमण्डलं प्रविश्य तच्चन्द्रमण्डलगलदमृतधाराभिर्देहमाप्लावयतीत्यागमप्रसिद्धम् । तदेतदाह ब्रह्मग्रन्थीत्यादि । ब्रह्मसंज्ञकं ग्रन्थिं विशेषेण भिनत्तीति सा । भेदिन्यै इति || For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy