________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
80
ललितासहस्रनामस्तोत्रम् सम्बन्धोऽस्या इति कुलयोगिनी । छलाक्षरसूत्रकारैः कौलिनी कुलयोगिनीत्यष्टाक्षरस्यैकनामत्वं यदुक्तं तत्रोपपत्तिं दशमे शतके वक्ष्यामः ।
अकुला समयान्तस्था समयाचारतत्परा ॥ ८८ ॥ सुषुम्णोर्ध्वस्थितं सहस्रारपद्ममकुलमित्युच्यते । तथा च स्वच्छन्दसंग्रहे-'अधश्चोर्ध्वः सुषुम्णायाः सहस्रदलसंयुतमित्यारभ्य 'पङ्कजद्वयमीशानि कुलाकुलमयं शुभामित्यन्तम् । तद्रूपत्वात्तन्निष्ठत्वाद्वाऽकुला । न विद्यते कुलं देहवंशादिकं यस्या इति वा । दहराकाशावकाशे चक्रं विभाव्य तत्र पूजादिकं समय इति रूढ्योच्यते । स च सर्वैर्योगिभिरैकमत्येन निर्णीतोऽर्थ इति संङ्केतरूपत्वादपि समयः । तत्प्रतिपादकत्वाद् वसिष्ठ-शुक-सनक-सनन्दन-सनत्कुमाराख्यतन्त्रपञ्चकमपि समयपदेन व्यवह्रियते | तदन्तस्तत्प्रतिपाद्यतया तिष्ठति । यद्वा । समं साम्यं यातीति समय: शिवः । आतोऽनुपसर्गे कः' समयादेवी च तयोरेकशेषः । साम्यं च परस्परं शिवशक्त्योः पञ्चविधं अधिष्ठानसाम्यमनुष्ठानसाम्यमवस्थानसाम्यं नामसाम्यं रूपसाम्यं चेति । अधिष्ठानं पूजाधिकरणं चक्रादि । अनुष्ठानं सृष्ट्यादिकृत्यम् । अवस्थानं नृत्यादिक्रिया । नाम भैरवादि । रूपमारुण्यादि । अस्य च विस्तारो वासनासुभगोदयव्याख्याने लल्लेन कृतः । तयोरन्ते स्वरूपे तिष्ठति । 'अन्तःप्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहर' इति विश्वः । रुद्रयामले दशभिः पटलैरुपदिष्ट आचारः समयाचार इत्युच्यते । यद्वाः । दीक्षितस्य गुरुकटाक्षवशात् षड्विधैक्यचतुर्विधैक्यान्यतरानुसन्धानदाढये महावेधाख्यसंस्कारे च महानवम्यां जाते सति पश्चान्मूलाधारादुत्थिता देवी मणिपूरे प्रत्यक्षा भवति । तां तत्रैव पाद्यादिभूषणान्तैरुपचारैः सम्पूज्यानाहतं नीत्वा ताम्बूलान्तमभ्यर्च्य विशुद्धिचक्रं नीत्वा तत्रत्यचन्द्रकला- रूपैर्मणिभिः पूरयित्वा आज्ञाचक्रं नीत्वा नीराज्य सहस्रदलकमले सरघामद्ये सदाशिवेन संयोज्य तिरस्करिणीं प्रसार्य समीपं मन्दिरे स्वयं स्थित्वा यावद्भगवती पुनर्निर्गता सती मूलाधारकुण्डं प्रविशति तावत्तत्रैव समयं प्रतीक्षेतेत्याकारो गुरुमुखैकवेद्यः समयाचारः । तयोरुभयविधयोरपि तत्परा आसक्ता ॥ ८८॥
कुः पृथ्वी । इदं च पञ्चमहाभूतोपलक्षणम् । तत्र लीयते इति कुलं नश्वरम् । तस्मादन्या अकुला । अकुलायै इति ॥ समय: सच्छास्त्रसङ्केतः तस्यान्ते तत्सेवनान्ते प्राप्यत्वेन तिष्ठतीति सा । अन्तस्थायै इति ॥ आचरणमाचारः समयः पूर्वोक्त आचारो येषां तेषु तत्परा आसक्ता । तत्परायै इति ॥ ८८॥
For Private and Personal Use Only