________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इत्यागमे ।
सौभाग्यभास्कर - बालातपासहितम्
भविष्योत्तरपुराणवचनात् आचारोऽपि कुलं तयोः सङ्केतान् तत्रत्यरहस्यानि पालयति पशुषु न प्रकाशयति साम्प्रदायिकपरम्परायै प्रकाश्य तन्तुं प्रवर्तयति चेति तथा, 'चक्रसङ्केतको मन्त्रपूजासङ्केतकाविति । त्रिविधस्त्रिपुरादेव्याः सङ्केतः परमेश्वरि ॥'
'कुलाङ्गनैषाप्यथ राजवीथीः प्रविश्य सङ्केतगृहान्तरेषु । विश्रम्य विश्रम्य वरेण पुंसा सङ्गम्य सङ्गम्य रसं प्रसूतः ॥
इति चिन्तामणिस्तवे च प्रतिपादितोऽयमर्थः ॥ ८७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
कुलं नाम पातिव्रत्यादिगुणराशिशीलो वंशस्तत्सम्बन्धिन्यङ्गना यथा गुप्ता तथेयमप्यविद्याजवनिकया गुप्तत्वात्कुलाङ्गना । तदुक्तं कुलार्णवे
'अन्यास्तु सकला विद्या: प्रकटा मणिका इव । इयं तु शाम्भवी विद्या गुप्ता कुलवधूरिव ॥'
'पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे ।
गृहे गृहे शक्तिपरैग्रमे ग्रामे वने वने ॥'
इति । भगवान्परशुरामोऽप्याह 'अन्या विद्या वेश्या इवातिप्रकटा' इत्यादि । कुलस्यान्तः मातृमेययोर्मध्ये मितिरूपेण स्थिता | कुलशास्त्रस्य मध्ये ज्ञेयत्वेन वा स्थिता । प्रतिगृहं प्रतिदेशं प्रतिदेहं प्रतिवंशं वा पूज्यत्वेन तिष्ठति । 'कुलं जनपदे गृहे । सजातीयगणे गोत्रे देहेऽपि कथितं कुलमिति विश्वः । तदुक्तं भविष्योत्तरपुराणे
79
'कुलं शक्तिरिति प्रोक्तमकुलं शिव उच्यते । gasकुलस्य सम्बन्धः कौलमित्यभिधीयते ॥
इति । अधःस्थितं रक्तं सहस्रदलकमलमपि कुलम् । तत्कर्णिकायां कुलदेवीदलेषु कुलशक्तयश्च सन्तीति स्वच्छन्दतन्त्रेऽस्य विस्तरः । ईदृगर्थस्य कुलपदस्य परतः सम्बन्धसामान्यार्थे तद्धिते कौलम् ।
इति तन्त्रोक्तम् । शिवशक्तिसामरस्यं वा कौलं तद्वती कौलिनी बाह्याकाशावकाशे चक्रं विलिख्य तत्र पूजादिकं कौलमिति रूढ्योच्यते इति कश्चित् । कुले उक्तार्थक योगः
For Private and Personal Use Only
कुलस्य परमशिवस्याङ्गनाशक्तिः । अङ्गनायै इति ॥ कुलस्य परशिवस्यान्तः सारतया तिष्ठतीति सा । अन्तस्थायै इति ॥ कुले भवं कौलं परशिवोत्पन्नं जगत् । तदस्यास्तीति कौलिनी । कौलिन्यै इति । कुलस्य पर शिवस्य योगः नित्यसम्बन्धः तद्वती । योगिन्यै इति ॥