________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नामान्याह
78
ललितासहस्रनामस्तोत्रम्
इति । मूलस्य कूटत्रयमेवोक्तरीत्या कलेवरं स्थूलरूपं यस्याः कूटत्रयमेव कलेवरं सूक्ष्मरूपं यस्या इति वा | वस्तुतस्तु मूलशब्दाभ्यां कामकलाक्षरमुच्यते । कूटत्रयपदेन त्र्यात्मकसमुदायघटकावयवा उच्यन्ते । अयवये तयपो विधानात् । कामकलायां तूर्ध्वबिन्दुरेकस्तदधस्तिर्यग्बिन्दुद्वयं तदधो सार्धकलेति त्रयोऽवयवा गुरुमुखैकवेद्याः । त एव क्रमाद्विद्याकूटतया स्थूलरूपमुखाद्यवयवात्मना च परिणता इति सूक्ष्मतरं कुण्डलिन्याख्यं सूक्ष्मतमं वररूपपरं नामद्वयं समष्टिव्यष्टिभेदेनेति नाथचरणागमे विस्तरः । एवं ब्रह्माण्डान्तर्गतरूपमुक्त्वा पिण्ड्राण्डान्तर्गतं कुण्डलिन्याख्यं रूपं वक्तुमुपक्रमते । सा हि मूलाधाराख्ये चक्रे सार्धत्रिवलयाकारेण सुप्ता सती योगिभिरुत्थाप्य षट्चक्राणि ब्रह्मविष्ण्वादिग्रन्थींश्च भेदयन्ती सहस्रारं नीता सती तत्कर्णिकारूपचन्द्रमण्डलादमृतं स्रावयति ।
अयोगिभिरपि भावनामात्रेण सर्वाप्येषा प्रक्रिया सम्पाद्यते तत्प्रक्रियापराणि
Acharya Shri Kailassagarsuri Gyanmandir
कुलामृतैकरसिका कुलसङ्केतपालिनी ॥ ८७ ॥
कुलामृतेत्यादिना । कुलं सजातीयसमूहः । स चैकज्ञानविषयत्वरूपसाजात्यापन्नज्ञातृज्ञेयज्ञानरूपत्रयात्मकः । घटमहं जानामीत्येव ज्ञानाकारात् । ज्ञानभासनायानुव्यवसायापेक्षायां दीपभासनाय दीपान्तरापेक्षापत्तेः । उक्तं चाचार्यभगवत्पादैः– 'जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगदिति । ततश्च सा त्रिपुटी कुलमित्युच्यते । तदुक्तं चिद्गगनचन्द्रिकायाम् - मेयमातृमितिलक्षणं कुलं प्रान्ततो व्रजति य विश्रमम्' इति । ऊर्ध्वाधरभावेन विद्यमानेषु स्वच्छन्दसंग्रहादौ प्रपञ्चितेषु द्वात्रिंशत्पद्मेषु सर्वाधस्तनं पद्मं त्रिपुटीसम्बन्धाभावादकुलमुच्यते । तदुपरिस्थानि कुलसम्बन्धीनि । यद्वा । कुः पृथ्वीतत्त्वं लीयते यत्र तत्कुलमाधारचक्रं तत्सम्बन्धाल्लक्षणया सुषुम्णामार्गोऽपि । अतः सहस्रारात्स्रवदमृतं कुलामृतम् । शरीरं कुलमित्युक्त' मिति स्वच्छन्दसंग्रहोक्त्या शरीरसम्बन्धित्वाद्वा तत्कुलामृतम् । तत्र मुख्यतया रसिका तद्रसास्वादनपरा । 'पुष्पिताया: कुलागारं दृष्ट्वा यो जपते नर' इति कालीतन्त्रे प्रयोगात्तत्रत्यामृतरहस्यरसिकेति वा ।
उपास्योपासकवस्तुजातस्य चित्त्वेन साजात्यात्तत्समुदायप्रतिपादकं शास्त्रमपि कुलम् । तथा च कल्पसूत्रे प्रयोगः:- 'कुलपुस्तकानि च गोपायेदिति । 'दर्शनानि तु सर्वाणि कुलमेव विशन्ति ही त्यागमे च । 'न कुलं कुलमित्याहुराचारः कुलमुच्यत इति
कुः पृथ्वी । इदं च जलादिशिवतत्त्वान्तोपलक्षणम् । तल्लीयते यत्र परमशिवे तत्सम्बन्धि यदमृतं स्वरूपविमर्शः तत्र रसिका । रसिकायै इति । कुलस्य परमशिवस्य यः सङ्केतः नियतिः तां पालयतीति सा । पालिन्यै इति ॥ ८७ ॥
For Private and Personal Use Only