________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
77 इयता प्रबन्धेन देव्याः परं रूपं सूक्ष्मतरत्वात्सूक्ष्मरूपात्परात्परतो वक्तव्यमपि रहस्योक्तिविषयत्वात्स्थूलरूपकार्येण भण्डासुरवधेन सह श्लेषलिप्सया पूर्वमेवोक्त्वा क्रमप्राप्तं सूक्ष्मरूपं स्थूलरूपाभिन्नत्वेन वर्णयति
___श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ८५ ॥ श्रीमद्वाग्भवेत्यादिना । सूक्ष्मरूपमपि सूक्ष्मसूक्ष्मतरसूक्ष्मतमभेदात्त्रिविधं पञ्चदशीविद्या कामकलाक्षरं कुण्डलिनी चेति भेदात् । तेष्वाद्यं नामत्रयेणोच्यते । श्रीमज्ज्ञानप्रदायकत्वादिमाहात्म्यशीलं वाग्भवत्यस्मादिति व्युत्पत्त्या वाग्भवनामकं कूटं पञ्चाक्षराणां समुदाय एवैकं मुख्यं स्वं निजं रूपं यस्य तादृशं मुखपङ्कजं यस्याः । तदुक्तम्- 'नेत्रोष्ठापरगलवर्णशालिवाचां । सम्भूतिर्मुखमिति वाग्भवाख्यकूटम्' इति ॥ ८५ ॥
कण्ठाध:कटिपर्यन्तमध्यकूटस्वरूपिणी। कण्ठस्याध: कटिपर्यन्तो यस्य स मध्यभाग: स एव मध्यस्थकामराजाख्यस्य षडक्षरसमूहस्य स्वं निजं रूपमस्याः । पटुज्योतिष्मती लोचने इतिवत्कर्मधारयादपि मत्वर्थीयः ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ८६ ॥ सर्जनशक्तिमत्त्वाच्छक्तिनामकेन कूटेन चतुरक्षरसमूहेनैकतामभेदमापन्नकटेरधोभागं धारयतीति तथा । तदुक्तम्
'कामस्ते हृदि वसतीति कामराज
स्रष्टुत्वात्तदनु तवाम्ब शक्तिकूटम् ।' इति ॥ ८६ ॥
मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा । चतुर्विधपुरुषार्थमूलकारणत्वान्मूलं पञ्चदशाक्षरी सैव मननात्त्रायत इति मन्त्रः ।' आत्मा स्वरूपं यस्याः । तदुक्तम्
पूर्णाहन्तानुसन्ध्यात्मा स्फूर्जन्मननधर्मतः । संसारक्षयकृत्त्राणधर्मतो मन्त्र उच्यते ॥
श्रीमती सर्वोत्कृष्टा वाग्भवत्यस्मादिति श्रीमद्वाग्भवं ईदृशं कूटं वर्णसमूहः सौभाग्यविद्यायाः प्रथमं कूटम् । तदेवैकं मुख्यं स्वरूपं ईदृशं मुखपङ्कजं यस्याः सा । पङ्कजायै इति ॥ ८५ ॥
कण्ठाध:कटिपर्यन्तं मध्यकूटस्य कामराजकूटस्य स्वरूपं यस्याः सा | स्वरूपिण्यै इति ॥
शक्त्याख्येन तार्तीयेन कूटेन एकतां अभेदमापन्नं प्राप्तं ईदृशं कटेरधोभागं धारयतीति सा | धारिण्यै इति ॥ ८६
अखिल पुमर्थमूलभूतो मन्त्रः सौभाग्यविद्यारूप: स आत्मास्वरूपं यस्याः सा । आत्मिकायै इति ॥ मूलस्य कूटत्रयमेवोक्तरीत्या कलेवरं देहो यस्याः सा । कलेवरायै इति ।
For Private and Personal Use Only