________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ललितासहस्रनामस्तोत्रम् इति प्रवृत्ति प्रति इच्छाया: कारणत्वाच्छिवस्य प्रवर्तिका भगवत्येवेति सिद्धं तस्या गुरुत्वम् । अतएव गुरुमूर्तिरिति नाम वक्ष्यते । 'शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यत' इते | चतुःशतीशास्त्रादिच्छाशक्तिविशिष्टस्यैव परशिवस्यादिनाथत्वेन तन्त्रेषु गणनान्न त्रिपुरसुन्दर्या गुरुमण्डलान्तरादिनाथात्पूर्वगणनपूजनाद्यापत्तिचोद्यावकाश: । तथा च महास्वच्छन्दतन्त्रे
'गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः ।
प्रश्नोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् ॥ इति । स्वयमेवेत्यनेन प्रकाशविमर्शाशयोर्विभजनेन परस्परं गुरुशिष्यभावः सूचित: । प्रवर्तकत्वप्रष्ट्रत्वे देवीनिष्ठयोर्वक्तृत्वप्रवर्त्यत्वे शिवनिष्ठयोर्गुरुत्वशिष्यत्वयोरवच्छेदके इति तद्भेदादविरोध: । एतदेव द्योतयितुं मदिच्छारूपयेति विशेषणं प्रभुपदेन सम्बोधनं च । वस्तुतस्तु आदिनाथादर्वागादिशक्त्यम्बानाम्ना द्वितीयस्थाने गण्यत एवेति न ततः पूर्वं पुनर्गणनापत्तिः । सदाशिवनामकतृतीयगुरुं प्रत्यादिनाथावच्छिन्नाया आदिशक्ते रेव गुरुत्वाद् द्वितीयस्थान एव गणनीयतया न तयोः पौर्वापर्ये विनिगमनाविरहोऽपीते दिक् । यद्वा हरणं हर: आत्मस्वरूपापहारः, हरन्तीति वा हराः आत्मापहर्तारस्तेषां नेता नायक: स एव आसमन्ताद् व्याप्तोऽग्निः स्वस्वरूपान्यथाकरणात् । मूलाज्ञानमिति यावत् । तस्य मूलाज्ञानाधिकत्वात् । तेन सम्यग्दग्धो यः कामो जीवभावमापन्नः कामेश्वरस्वरूप आत्मा तस्य सम्यगावरणपरावृत्त्यभावपूर्वक जीवने स्वस्वरूपावाप्तौ ओषधिर्मूलिका । एतदुपासनया विद्यारूपयाऽविद्यानिवृत्त्या स्वस्वरूपावाप्तिलक्षणो मोक्ष इति भाव: । मन्मथस्य दाहात्पूर्वं सशरीरस्य जीवत एव पश्चादशरीरजीवनदृष्टान्तादात्मनोऽपि पूर्वं ब्रह्मण एव सतोऽविद्यावशात्सशरीरस्येव स्थितस्य तन्निवृत्तावशरीरतापूर्वकब्रह्मैक्यप्राप्तिर्ध्वन्यते । ध्वनितं चैवमेव शैवशास्त्रान्तिमाधिकरणे 'भूयः स्यात्प्रोक्तमिलन मिति । वार्तिकेऽपि
'पुनश्च प्रोक्तचैतन्यस्वरूपमिलनात्मकम् । परायोगादिरूढस्य भवेत्परमयोगिनः ॥ भूयः स्यादिति वाक्यस्य स्फुट एवायमाशयः । यच्छिवत्वममुष्योक्तं नापूर्वं तत्तु योगिनः ॥ स्वभाव एव तन्मायाशक्तिप्रोत्थापितानिजात्। नानाविकल्पदौरात्म्यात्पराभूतमिव स्वतः॥ विमृष्टं गुरुनिर्दिष्टप्रोक्तोपायक्रमेण तत् ।
शिवत्वं व्यक्तमेतीति शिवनोदीरितं शिवम् ॥' इति शक्तिशास्त्रान्तिमाधिकरणेऽपि 'निजसंविदेवताचक्रेश्वरत्वप्राप्तिरिति सूत्रावयवे निजपदेन तथैव स्फोरितमिति ।
For Private and Personal Use Only