________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितम्
इति । यद्वा । आत्माख्यदेवताया जीवदशायामेव सायुज्यमुक्तिं प्राप्तस्य शिवतुल्यस्थितिमियता प्रबन्धेन कथयित्वा साम्प्रतं प्रारब्धवशात्स्थितस्य दग्धपटाभासस्य द्वैतभानस्य तत्तुल्येन लिङ्गशरीरादिना सह नाशमात्मज्ञानेन वदन् शिवमात्रावशेषमाह । कामेश्वरास्त्रं चिदग्निः । चिदात्मन एव सर्वकाम्यमानत्वेन कामेश्वरत्वात् । 'आत्मनः कामाय सर्वं प्रियं भवति' इति श्रुतेः । भण्डासुरो द्वैतभानकरो जीवभावः । शून्यकेतिपदस्य दग्धपटाभासद्वैतभानमर्थः । शून्यवादिसम्मतं शून्यमेव वा । जीवभावसहितस्य शून्यभावस्य चिदग्निनापगमे चिन्मात्रमवशिष्यत इति सिध्यति । शून्यशब्दाद्रिक्तेऽर्थे यावादिगणपाठात्कन् ।
एवं भण्डासुरपीडितैर्देवैः स्तुता सती भण्डहननान्तं देवकार्यं कृत्वा तदन्ते सन्तुष्टैर्देवैः पुनः स्तुतेत्याह
ब्रह्मोपेन्द्र महेन्द्रादिदेवसंस्तुतवैभवा ॥ ८४ ॥
ब्रह्मेति । ब्रह्मविष्णुशक्राद्यैर्देवैः सम्यक् स्तुतं वैभवं पराक्रमो यस्याः । 'अस्मिन्नवसरे देवा भण्डसंहारतोषिताः ।
सर्वेऽपि सेवितुं प्राप्ता ब्रह्मविष्णुपुरोगमाः ॥'
75
इत्यादि ब्रह्माण्डपुराणात् । पक्षे ब्रह्मणः संस्तुतं परिचितं विभुत्वमपरिच्छिन्नत्वं सर्वात्मत्वं यस्या आत्मरूपदेवतायाः सा ॥ ८४ ॥
हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः ।
हरस्य तृतीयनेत्रस्थेन अग्निना सम्यक् दग्धस्य भस्मीकृतस्य कामस्य मन्मथस्य सञ्जीवनौषधिः जीवातुः । विरक्ततरस्यापि कामेश्वरस्य स्वाभिमुखीकरणात् । भण्डासुरहननोत्तरं ब्रह्मादिभिः प्रार्थितया ललिताम्बया पुनर्मन्मथो जीवित इति कथाया ब्रह्माण्डपुराणे स्मरणाच्च । एतेन पित्रा निर्भर्त्सितो बालो मात्रैवाश्वास्यते किलेति न्यायोऽप्यनुगृहीतः । अनेनैवाशयेनोक्तं ब्रह्मवैवर्ते - 'हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चनेति । न च तत्र हरिपदस्योपास्यदेवतोपलक्षणत्वेन त्रिपुरसुन्दरीको - पात्त्राणकर्तृत्वं परमशिवस्यैव गुरुपरम्परावधित्वाद्वक्तव्यं न पुनर्वैपरीत्यमिति शङ्कयम् । परमशिवस्यापि श्रीविद्योपासकत्वेनोपासनायाश्च गुरुमन्तरेणायोगात्तदपेक्षायां त्रिपुरसुन्दर्या एव तद्गुरुत्वस्वीकारात् । अतएव योगिनीहृदये शिवेनैव पार्वतीं प्रत्युक्तम्'अन्यायेन च दातव्यं नास्तिकानां महेश्वरि । एवं त्वयाहमाज्ञप्तो मदिच्छारूपया प्रभो ॥'
For Private and Personal Use Only
ब्रह्मोपेन्द्रमहेन्द्रादिदेवैः सम्यक् स्तुतं वैभवं पराक्रमो यस्याः सा । वैभवायै इति ॥ ८४ ॥ हरस्य शिवस्य तृतीयं यन्नेत्रं तस्याग्निना सम्यग्दग्धस्य कामस्य मन्मथस्य सञ्जीवने ओषधिरूपा । ओषध्यै इति ॥