SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 ललितासहस्रनामस्तोत्रम् इत्यन्तेन । पक्षे जीवसम्बन्धिन्यो जाग्रदादयोऽवस्था पञ्चेश्वरसम्बन्धीनि सृष्ट्यादीनि कृत्यानि पञ्चेत्येवं दशाकृतयोऽपि नखमात्रेणोत्पन्ना भवन्तीति अनायासेनोत्पद्यन्त इत्यत्र तात्पर्यम् । नारायणशब्दो जीवेश्वरयोरुपलक्षकः । दशाशब्दोऽवस्थापरः । कृतिशब्दः कृत्यपरो वा । महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ८३॥ षडक्षरात्पाशुपतास्त्रमन्त्रादयं भिन्नो महापाशुपतास्त्रमन्त्रः । पूर्व ईश्वरदेवत्योऽन्त्य: सदाशिवदेवत्यः । 'रुद्रादयः पिशाचान्ताः पशवः परिकीर्तिताः। तेषां पतित्वात्सर्वेशो भवः पशुपतिर्मतः ॥ इति लैङ्गात् । पशुपतेः ईश्वरस्य सदाशिवस्येदं पाशुपतम् । अश्वपत्यादित्वान्न पत्युत्तरपदलक्षणो ण्यप्रत्यय: । महच्च तत्पाशुपतं च महापाशुपतं सदाशिवास्त्रं तस्याग्निना निर्दग्धा असुरस्य भण्डस्य सैनिका यया सा | पक्षेऽभ्यासतारतम्येनोत्तरोत्तरोत्पन्ना उत्कृष्टा अद्वैतवृत्तय एव महापाशुपतास्त्राग्नयः असुरसैनिका आविद्यकवृत्तयः ॥ ८३ ॥ कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका । कामेश्वरस्य यदस्त्रं तन्महापाशुपतादस्त्रादप्यधिकम् । तस्याग्निना निर्दग्धं भण्डासुरेण सहितं शून्यकाख्यं तदीयनगरं यया सा । तथा च ब्रह्माण्डे 'अथैकशेषितं दुष्टं निहताशेषबान्धवम् । क्रोधेन प्रज्वलन्तं च जगद्विप्लवकारिणम् ॥ महासुरं महासत्त्वं भण्डं चण्डपराक्रमम् । महाकामेश्वरास्त्रेण सहस्रादित्यवर्चसा ॥ गतासुमकरोन्माता ललिता परमेश्वरी। तदस्त्रप्रहितैलैिः शून्यकं तस्य पत्तनम् ॥ सस्त्रीकं च सबालं च सगोष्ठधनधान्यकम् । निर्दग्धमासीत्सहसा स्थलमात्रमशिष्यत ॥ शून्यकं तत्पुरं नाम शून्यमासीद्यथार्थतः । महत् यत्पशुपतिसम्बन्ध्यस्त्रं तस्याग्निना निःशेषेण दग्धा: भण्डनामकासुरस्य सैनिका । सेनानायकाः यस्याः सा । सैनिकायै इति ॥ ८३ ॥ ____ कामेश्वरस्य कामेश्वरसम्बन्ध्यस्त्रस्य अग्निना निःशेषेण दग्धं भण्डासुरसहितं शून्यकं नाम तनगरं यस्याः (यया) सा । शु(शू)न्यकायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy