SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 सौभाग्यभास्कर-बालातपासहितम् महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता। महागणेशेन निःशेषेण. भिन्नै शितैर्विघ्नयन्त्रैः प्रत्यूहसमूहयन्त्रणैः प्रकर्षण हर्षिता । गव्यूतिमात्रायामे शिलापट्टे अलसादिदेवताष्टकपुटितशूलाष्टकोपेतदिगष्टकं जयविनं नाम यन्त्रं विलिख्य देवीसैन्ये विशुक्रेण निक्षिप्तं तन्महागणपतिना चूर्णीकृतमिति ललितोपाख्याने प्रसिद्धम् । भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ८२ ॥ भण्डेनासुरेन्द्रेण दैत्यराजेन निर्मुक्तानां शस्त्राणामस्त्राणां प्रतिकूलान्यस्त्राणि वर्षतीति तथा । शस्त्रास्त्रयोर्भेदो धनुर्वेद-'धृत्वा प्रहरणं शस्त्रं मुक्त्वात्वस्त्रमितीरित'मिति । पक्षे महागणानामीश्वरत्वेनात्मन्यात्मताज्ञानाभावादाविद्यकवृत्तिरूपाणां विघ्नानामस्त्राणां च पराहन्तानुसन्धानधारारूपप्रत्यस्त्रै शेन नामद्वयमध्यात्मरीत्यापि व्याख्येयम् ॥ ८२ ॥ कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः। करामुल्यो दक्षवामकरद्वयस्याङ्गुल्यो दश तासां नखसन्धिषूत्पन्ना नारायणस्य दशाकृतयो मत्स्यादिदशावतारा यस्याः सा । भण्डासुरेण सर्वासुरास्त्रं नाम सकल दैत्योत्पादनमस्त्रं प्रयुक्तं तेन सोमक-रावण-बलि-हिरण्याक्षादय उत्पन्नाः सन्तोऽयुध्यन्त। ततो देव्या दक्षहस्ताङ्गुष्ठादिवामहस्तकनिष्ठिकान्ताङ्गुलिनखेभ्य: क्रमेण मत्स्य-कूर्मवराह-नारसिंह-वामन-भार्गव-दाशरथि-हलधर-कृष्ण-कल्किरूपदशावतारानुत्पाद्य ते निषूदिताः । उक्तञ्च ब्रह्माण्डे-- 'दक्षहस्ताङ्गुष्ठनखान्महाराश्याः समुत्थितः। महामत्स्याकृतिः श्रीमानादिनारायणो विभुः ॥ इत्यारभ्य दशावतारनाथास्ते कृत्वेत्थं कर्म दुष्करम् । ललिताम्बां नमस्कृत्य बद्धाअलिपुटाः स्थिताः॥' महागणेशेन निर्भिन्नं निःशेषेण नाशितं यद्विघ्नयन्त्रम् । गव्यूतिमात्रविस्तृतायां शिलायां यल्लिखित्वा शक्तिसैन्ये आलस्यादिकमुद्भाव्य विघ्नकरणाय शक्तिसैन्ये विशुक्रेण निक्षिप्तमिति प्रसिद्धम् । तेन प्रकर्षेण हर्षिता । हर्षितायै इति । ___ भण्डनामकेनासुरेन्द्रेण निर्मुक्तानां प्रयुक्तानां शस्त्राणां प्रतिकूलानि नाशकान्यस्त्राणि वर्षीति सा । वर्षिण्ये इति ॥ ८२ ॥ ____ करयोरङ्गुलयः दश तासां नखेभ्य उत्पन्ना नारायणस्य विष्णोराकृतयः अवतारा यस्याः । आकृतये इति । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy