SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ललितासहस्रनामस्तोत्रम् इति । असुरनिर्मितैर्नानाविधैर्विजैर्यन्त्रितान्देवान्वीक्ष्य श्रीमात्रा तदात्व एव स्वभर्तुर्मुखालोकनमात्रेणाष्टाविंशत्यो महागणपतिरुत्पादितस्तेन तदीयं विघ्नयन्त्रं निर्भिद्य देवा मोचिताः । उक्तञ्च ब्रह्माण्डपुराणे 'ततः सा ललितादेवी कामेश्वरमुखं प्रति । दत्तापाङ्गा समहसन्नातिव्यक्तरदावलि ॥ तस्या मन्दस्मितरुचः कुञ्जराकृतिमान्मुखे । कटक्रोडगलदानः कश्चिद्देवो व्यजृम्भता ॥' इत्यादि । तदिदं नामद्वयेनाह । कामेश्वरमुखस्य परशिववदनचन्द्रस्यालोकाभ्यां साकूतवीक्षणचन्द्रिकाभ्यां कल्पित उत्पादितः श्रीमान्महान्गणेश्वरो यस्याः सा । यद्वा सूत्रोक्तो जीवक्षयो नित्यत्वान्न युज्यत इत्याशङ्कय जीवभावस्य क्षयपरत्वेन समाधत्ते कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ८१॥ कामेश्वर इति । कामेश्वरः केवलनिर्गुणः शिवस्तन्मुखालोकेन तदनुभवेन कल्पितं श्रीगणेश्वरत्वं पुर्यष्टकाधीश्वरत्वं यया सा । पुर्यष्टकप्रमातृत्वाहन्ताभिमानिविशिष्टस्य जीवपदवाच्यत्वेन तत्तादात्म्याभिमानस्य स्वात्मस्वरूपनिष्कर्षज्ञानजन्येन पुर्यष्टकेश्वरत्वज्ञानेन नाशे विशेषणाभावाप्रयुक्तो विशिष्टाभाव इति भावः । तदुक्तंम् 'भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः पर' इति शिवसूत्रेवार्तिककारैः 'तदेत्युक्ताभिलाषस्य प्रशमाज्जीवसंक्षये। पुर्यष्टकप्रमातृत्वाभिमानगलनादसौ ॥ देहारम्भकरैर्भूतैरस्पृशद्भिरहं पदम् । कञ्चुकीव विशेषेण मुक्तो निर्वाणभाग्यतः ॥ भूयो बाहुल्यतः पत्या समोऽयं परमेशिना । तत्त्वरूपं समाविष्टश्चिदानन्दघनात्मकम् ॥ तत एव परः पूर्णः सम्यक् तन्मयतां गतः। इति । अयमेवार्थः शक्तिसूत्रेऽप्युक्त:--'चिदानन्दलाभे देहप्राणादिष्ववभासमानेष्वपि चिदैकात्म्यप्रतिपत्तिदाढय जीवन्मुक्ति रिति । 'मध्यविकासाच्चिदानन्दलाभ' इत्युत्तरसूत्रे तु मध्यविकासो यश्चिदानन्दलाभो हेतुत्वेनोक्तः स इह वक्ष्यमाणमहागणेशपदेन ग्राह्यः । यश्च मध्यविकासेऽप्युपायस्तत्तोऽप्युत्तरसूत्रे विकल्पक्षयादिरूपो वर्ण्यते स इह कामेश्वरमुखालोकपदेनोक्तः । प्रहर्षितेत्यनेन तु चिदानन्दलाभ उक्तः । एतेषां स्वरूपनिष्कर्षस्तु प्रत्यभिज्ञाहृदयेऽनुसन्धेयो विस्तरभयान्नेहोच्यते ॥ ८१ ॥ ____ कामेश्वरस्य मुखालोकमात्रेण कल्पितः उद्भावितः श्रीगणेश्वरो महागणपतिर्यया । गणेश्वरा इति ॥ ८१ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy