SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 ललितासहस्रनामस्तोत्रम् भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता। भण्डासुरस्य सैन्यस्य चतुरङ्गबलस्य वधे उद्युक्तानां संयतानां शक्तीनां नकुल्यादीनां विक्रमेण पराक्रमेण हर्षिता । यद्वा । भण्डो जीवभावस्तस्य सैन्यं तदनुगुणाद्वैतविषयिण्यो वृत्तयस्तस्य वधे उद्युक्तानामद्वैतवृत्तिरूपशक्तीनां विशेषेण क्रम: पादविक्षेपस्तेन हर्षिता । स्वानन्दांशे आवरणनाशात् । तदिदमुक्तं शक्तिसूत्रे-'तदपरिज्ञाने स्वशक्तिव्यामोहिता संसारित्व मिति । तस्य स्वकर्तृकपञ्चविधकृत्यस्यापरिज्ञाने स्वाभि: शक्तिभिः खेचरी-गोचरी-दिक्चरी-भूचरीसंज्ञाभिर्व्यामोहितैव संसारित्वमिति तदर्थः । तासां च शक्तीनां पशुभूमिकापतिभूमिकेति भूमिकाद्वैविध्येन प्रमात्रन्त:करणबहिःकरणविषयभावाद्यापत्तिस्तद्भाष्ये द्रष्टव्या । एतद्वधोद्युक्तशक्तयश्चैतदुत्तरसूत्रे कथिताः तत्परिज्ञाने चित्तमेवान्तर्मुखीभावेन चेतनपदाध्यारोहाच्चितिरिति । अन्तर्मुखीभावशब्देन वृत्तिविशेषरूपाः शक्तय उच्यन्त इति । नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ ७९ ॥ कामेश्वर्यादिचित्रान्ताः पञ्चदशतिथिनित्याख्या देवताः । यासां मन्त्रा ज्ञानार्णवे तन्त्रराजे च भेदेनोद्धृताः । तासां पराक्रमस्याटोपो विस्तारो दमनकादिचन्द्रगुप्तान्तपञ्चदशसेनानीवधपर्यन्त: तस्य निरीक्षणे सम्यगुत्सुका । पक्षे नित्या अनादिसिद्धाः स्वात्मशक्तयस्तत्पराक्रमे क्षणे उत्तरोत्तरमुत्सुका । सकृज्जातापि ज्ञानकलान्तर्मुखतायामेवोत्साहं जनयन्ती सती वर्धते । उक्तञ्च योगवासिष्ठे 'सर्वा एव कला जन्तोरनभ्यासेन नश्यति । इयं ज्ञानकला त्वन्तः सकृज्जातापि वर्धते ॥ इति ॥ ७९ ॥ भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता। भण्डासुरस्य पुत्राणां चतुर्बाह्वाधुपमायान्तानां त्रिंशत्संख्याकानां वधे उद्युक्ताया बालाख्यदेव्या नववर्षाया स्वपुत्र्या विक्रमेण नन्दिता हृष्टा । उक्तञ्च ब्रह्माण्डे 'ताभिनिवेद्यमानानि सा देवी ललिताम्बिका। पुत्र्या भुजापदानानि श्रुत्वा प्रीतिं समाययौ ।' इति । भण्डस्य भण्डासुरस्य यत्सैन्यं सेना तस्य वधे उद्युक्तानां सन्नद्धानां शक्तीनां विक्रमेण पराक्रमेण हर्षिता । सञ्जातहर्षा । हर्षितायै इति ॥ नित्यानां कामेश्वर्यादिचित्रान्तानां य: पराक्रमस्याटोप: विस्तार: तन्निरीक्षणे सम्यगतिशयेनोत्सुका । उत्सुकायै इति ॥ ७९ ॥ ____ भण्डस्य भण्डासुरस्य ये पुत्रा: तेषां वधे संहारे उद्युक्ताया बालायाः स्वकुमार्या विक्रमेण नन्दिता हृष्टा । नन्दितायै [इति] || For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy