________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
69
सौभाग्यभास्कर-बालातपासहितम् वरणस्य मध्यगा मध्यभागे स्थिता । तथा च ब्रह्माण्डे ज्वालामानिनीं प्रति देवीवचनम्
वत्से त्वं वह्निरूपासि ज्वालामालामयाकृतिः। त्वया विधीयतां रक्षा बालस्यास्य महीयसः॥ शतयोजनविस्तारं परिवृत्य महीतलम् ।
त्रिंशद्योजनमुन्नम्रज्वालाप्राकारतां व्रजेत् ॥ इत्यादि । यद्वा ननु परस्परविलक्षणसृष्ट्यादिसंवृतस्य ज्ञानिनः कथमद्वैतानुसन्धानलोपाभाव इत्यत आह-ज्वालेति । ज्वालानां मालिनिका मालास्ताश्च आक्षिप्तास्तत्क्षणे उत्पन्नाश्च वह्नः प्राकाराः प्रकाराः स्फुलिङ्गादयस्तेषां मध्यगा तद् द्रष्टुत्वेन तत्स्रष्ट्रत्वेन च मध्यवर्तिनी विवदमानयोर्द्वयोर्मध्यस्थवन्निर्विकारा । सृष्ट्यादिकर्तृत्वेन तद्विकारेऽप्यविकारिणीति यावत् । तदुक्तं स्पन्दशास्त्रे
अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥ कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिल्लुप्तेऽपि लुप्तोऽस्मीत्यबुधः प्रतिपद्यते ॥ न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदः।
तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ॥ इति । चिद्वह्निरूपस्य ज्ञानिनो विस्फुलिङ्गज्वालादितुल्यजगतः कार्यस्य नाशेऽपि वह्नित्वरूपप्रकाशकत्वस्य प्रकाशात्मकत्वस्य वा न क्षतिरिति फलितार्थः । न च शिवकार्यस्य क्षयिष्णुत्वेन शिवनिष्ठकर्तृत्वस्य नाशाभावे साधकस्य योगिनः किमायातमिति वाच्यम् । अस्यापि शिवतुल्यत्वेन 'तथापर्यनुयोगानर्हत्वात् शिवतुल्यो जायत' इति सूत्रात् । उक्तञ्च 'स्वशक्तिप्रचयो विश्वामिति सूत्रे वार्तिककारैः
'शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः। इत्यागमदिशा विश्वं स्वशक्तिप्रचयो यथा ॥
शिवस्य तत्समस्यापि तथास्य परयोगिनः । इति । अथवा । ज्वालामालिनिकासु शक्तित्रिकोणेषु पञ्चसु क्षिप्तानां समरसभावमापन्नानां वह्निप्राकाराणां शिवत्रिकोणानां चतुर्णां मध्ये बिन्दुरूपेण तिष्ठतीति | तदुक्तमुत्तरचतुःशतीशास्त्रे
'तच्छक्तिपञ्चकं सृष्ट्या लयेनाग्निचतुष्टयम् ।
पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसम्भवः ॥ इति ॥ ७८ ॥
For Private and Personal Use Only